Enter your Email Address to subscribe to our newsletters
बहुषु जिलासु नारंगः बह्वीषु जिलासु पीतः संकेतः
रायपुरम्, 16 सितंबरमासः (हि.स.)।वातावरणविभागेन बंगालखाड्यां जातस्य निम्नदाबक्षेत्रस्य च चक्रवातीयपरिसंचरणस्य प्रभावेन छत्तीसगढ़राज्ये त्रिदिनपर्यन्तं मेघगर्जन–विद्युत्सहितं वेगवान् वातैः सह वर्षा सम्भविष्यतीति सूचितम्। विभागेन राज्यस्य कतिपयेषु जिलेषु ऑरेञ्ज्–अलर्ट्, कतिपयेषु जिलेषु वर्षायाः येलो–अलर्ट् अपि प्रदत्तम्।
बस्तर–संभागे सुक्मा, दन्तेवाड़ा, बीजापुर, बस्तर–जिलेषु सोमवारे साधु–वर्षा निबद्धा। राजधानी रायपुरे, दुर्गे, भिलाय्यां, राजनांदगांव–नगरेषु अपि प्रचुरवर्षा अभवत्। गतचतुर्विंशतिघण्टाभ्यः बीजापुर–जिलस्य भोपालपट्टनमे स्थले सर्वाधिकं पञ्च–सेंटीमीटर–वर्षा निबद्धा। राजधानी–रायपुरे अधिकतमतापमानं ३४.८ डिग्री–सेल्सियस्, बालोद–नगरे ३५ डिग्री–सेल्सियस् इति निबद्धम्।
मौसमविभागस्य सूचनानुसारं उत्तर–पश्चिम–बंगालखाड्यां, उत्तरी–आन्ध्रप्रदेशे, दक्षिण–ओडिशातटप्रदेशेषु च निम्नदाबक्षेत्रं जातम्। तस्मात् छत्तीसगढ़राज्ये मानसूनगतिविधयः तीव्राः अभवन्। उत्तर–पश्चिम–मध्य–बंगालखाडे जातं चक्रवातीयपरिसंचरणं समुद्रतलात् ५.८ किमी. ऊर्ध्वं पर्यन्तं विस्तृतम्। एषः तन्त्रः अग्रिमद्विदिनेषु दक्षिण–ओडिशा, उत्तरी–आन्ध्रप्रदेशं, दक्षिण–छत्तीसगढ़ं च गन्ता।
अपरं मानसूनी–ट्रफ श्रीगंगानगर–रोहतक–सिवनी–राजनांदगांव–प्रदेशान् व्याप्य प्रवहति। विभागस्य मतानुसारं अग्रिमदिनेषु मेघगर्जन–विद्युत्सहितं वेगवान् वातैः सह वर्षा भविष्यति।
विभागेन नारायणपुर, कोंडागांव, कांकेर, बालोद, राजनांदगांव, रायगढ़, बिलासपुर, कोरबा, जशपुर, गौरेला–पेन्द्रा–मरवाही, सरगुजा, सूरजपुर, कोरिया, बलरामपुर–जिलेषु ऑरेञ्ज्–अलर्ट् प्रदत्तः, यत्र अतिवृष्टेः, आकाशीयविद्युत्पातस्य च सम्भावना। धमतरी, गरियाबन्द्, महासमुन्द्, रायपुर, जांजगीर–चांपा, दुर्ग, मुंगेली–जिलेषु येलो–अलर्ट् दत्तः, यत्र मेघगर्जन–वात–सहितवृष्टेः पूर्वानुमानः।
बहुषु स्थलेषु अग्रिमदिनेषु मेघगर्जनं, आकाशीयविद्युत्पातः, ३०–४० कि.मी./घण्टा वेगेन वातः च सम्भविष्यति। रायपुरे अद्य प्रभातात् एव आकाशः मेघैः आवृतः, कतिपयस्थलेषु अविरामवृष्टिः अपि प्रवर्तमानः।
हिन्दुस्थान समाचार