मुख्यमन्त्री उमरः जम्मु-कश्मीरप्रदेशे दूरसञ्चारं अङ्कीयसञ्चारमूलाधारपरियोजनानां च समीक्षाम् अकरोत्
श्रीनगरम् 16 सितम्बरमासः (हि.स.)। मुख्यमन्त्री उमर अब्दुल्ला अद्य जम्मु-कश्मीरप्रदेशे दूरसञ्चारं अङ्कीयसञ्चारमूलाधारं च सुदृढीकर्तुं कृतायां समीक्षासभायां अध्यक्षतां अकुरुत यत्र दुर्गमग्रामेषु, अन्धप्रदेशेषु, रेलयानसुरङ्गेषु च सेवाविस्तारे विशेषं ध्य
मुख्यमंत्री उमर ने जम्मू-कश्मीर में दूरसंचार, डिजिटल संचार बुनियादी ढांचा परियोजनाओं की समीक्षा की


श्रीनगरम् 16 सितम्बरमासः (हि.स.)। मुख्यमन्त्री उमर अब्दुल्ला अद्य जम्मु-कश्मीरप्रदेशे दूरसञ्चारं अङ्कीयसञ्चारमूलाधारं च सुदृढीकर्तुं कृतायां समीक्षासभायां अध्यक्षतां अकुरुत यत्र दुर्गमग्रामेषु, अन्धप्रदेशेषु, रेलयानसुरङ्गेषु च सेवाविस्तारे विशेषं ध्यानं दत्तम्।

अस्मिन् सम्मिलने सूचना-प्रौद्योगिकीमन्त्री सतीशशर्मा, मुख्यमन्त्रिणः परामर्शकः नासिर-असल्म-वानी, मुख्यसचिवः अटल-डुल्लू, मुख्यमन्त्रिणः अतिरिक्तमुख्यसचिवः धीरजगुप्ता, अनेके प्रशासनिकसचिवाः, बीएसएनएल-अधिकारीणः च उपस्थिताः। सभायां प्रवर्तमानपरियोजनानां स्थिति: तेषां च क्रियान्वयने आगतानां चुनौतिनां विषये चर्चा अभवत्।

प्रगतिसेतुभूतस्य सञ्चारस्य महत्त्वं निरूप्य मुख्यमन्त्री अवदत् यत् प्रभाविशासनाय, गुणवत्तायुक्तशिक्षायै, सुलभस्वास्थ्यसेवायै, जीवन्तपर्यटनाय, समग्रजनकल्याणाय च दृढा दूरवाणी-अन्तर्जाल-सेवा आवश्यकाः।

बीएसएनएल-अधिकारीभिः परिवर्तित-भारतनेट्-परियोजनायाः (एबीपी) द्वितीयचरणस्य प्रगतिः सभायां निवेदिता, यस्य लक्ष्यं ग्रामपञ्चायतेषु ग्रामीणप्रदेशेषु च उच्चवेग-अन्तर्जाल-प्रवेशं प्रदातुम्।मुख्यमन्त्रिणा कठोरसमयसन्धेः पालनं निर्दिष्टं, दूरदूरस्थ-पल्लीमनां वञ्चितप्रदेशानां च प्राथमिक्याधारेण आवरणस्य आवश्यकतां बलात् उक्तम्।

चर्चायामेकस्मिन् अनेके विषयाः प्रकाशिताः येषां कृते परियोजनाः समये समापनाय सर्वकारस्य हस्तक्षेपः अपेक्षितः। तेषु दूरसञ्चारस्तम्भानां उपकरणानां च संस्थापनाय भूमेः शीघ्रं आवण्टनम्, ऑप्टिकल-फाइबर-कैबल्-विस्तारणाय आरएण्डबी, पीएमजीएसवाई, बीआरओ, वनोपविभागः इत्यादिभिः मार्गाधिकरस्य शीघ्रं अनुमतिप्रदानं च समाविष्टम्।

भारतनेट्-परिचालनाय सर्वेषु ग्रामपञ्चायतेषु विद्युत्सम्बन्धस्य प्रदाने, केन्द्रीयीकृतबिलिङ्-प्रणाली-स्मार्ट्-मीटरिंग्-प्रणालीनां च कार्यान्वयने, पञ्चायत्-भवनस्य अन्यसर्वकारीभवनस्य वा उपलब्धता-कार्यशीलता-निश्चितौ च ध्यानं केन्द्रितं, यत्र अङ्कीय-सेवाः प्रदातव्याः तत्र अविच्छिन्नसेवानां आवश्यकता अपि बलात् उक्ता।

सर्वकारतः पूर्णसमर्थनस्य आश्वासनं दत्त्वा मुख्यमन्त्री अवदत्—“अस्माकं ग्रामाणां नगरकनां च अङ्कियसशक्तिकरणं समावेशकविकासस्य आधारशिला अस्ति। वयं प्रतिजानीमः यत् जम्मु-कश्मीरप्रदेशस्य कश्चन भागः अपि सञ्चारतः वियुक्तः न भवेत् – न काचिद् दुर्गमपल्ली, न कश्चन अन्धप्रदेशः, नापि रेलयानसुरङ्गः।”

मुख्यमन्त्री बीएसएनएल सम्बन्धित-सर्वकारीविभागांश्च निकटसमन्वयेन सह कार्यं कर्तुम्, बाधानां शीघ्रं निवारणं कर्तुम्, जम्मु-कश्मीरप्रदेशे सञ्चारपरियोजनानां समयानुकूलं क्रियान्वयनं सुनिश्चितं च कर्तुं निर्दिष्टवान्।

हिन्दुस्थान समाचार / अंशु गुप्ता