Enter your Email Address to subscribe to our newsletters
भाेपालम्, 16 सितंबरमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहनयादवेन भारतरत्न-सम्भूषितां कर्नाटकसंगीतस्य पर्यायां एम्. एस्. सुब्बुलक्ष्मीम् जयन्त्यां नमनम्
मध्यप्रदेशमुख्यमन्त्री डॉ. मोहनयादवः भारत-रत्न-सम्मानितां कर्नाटकसंगीतस्य पर्यायभूतां सुप्रसिद्धां गायिकां एम्. एस्. सुब्बुलक्ष्मीम् तस्याः जयन्त्यां मङ्गलवासरे श्रद्धया नमनं कृतवान्।
मुख्यमन्त्रिणा उक्तं यत् — “भारतीय-शास्त्रीयसंगीतस्य अमरसाधिका, ‘भारत-रत्न’ एम्. एस्. सुब्बुलक्ष्मीजी जयन्त्यां मम कोटिशः नमनम्। मा सरस्वत्याः कृपया अनुप्राणितः तस्याः स्वरः केवलं संगीतं न, अपि तु साधनायाः भक्तेः च अद्वितीयः संगमः आसीत्। अन्तर्राष्ट्रीय-मञ्चेषु भारतीयसंगीतस्य गौरवं संवर्धयन्त्या सुब्बुलक्ष्म्या महोदया यः मधुरः स्वरः, सः युगयुगान्तरेषु भारतीयसंस्कृतेः शाश्वतगुञ्जनरूपेण अस्मान् प्रेरयिष्यति।”
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता