मुख्यमंत्री साय सप्तदशमे सितम्बरमासस्य दिने प्रदेशस्य श्रमिकेभ्यः 65.16 कोटिरूप्यकाणि स्थानान्तरणं करिष्यति
रायपुरम् 16 सितंबरमासः (हि.स.)। मुख्यमंत्री विष्णुदेवसायः 17 सितम्बरमासस्य दिने अपराह्णद्वितीयवादने राजधानीरायपुरे स्थिते इनडोर् स्टेडियम् इत्यस्मिन् स्थले विश्वकर्माजयंती-अवसरे श्रमविभागेन सह, प्रदेशस्य 1,84,220 श्रमिकेभ्यः 65 कोटि 16 लक्ष 61 सहस्र
मुख्यमंत्री  विष्णु देव साय


रायपुरम् 16 सितंबरमासः (हि.स.)। मुख्यमंत्री विष्णुदेवसायः 17 सितम्बरमासस्य दिने अपराह्णद्वितीयवादने राजधानीरायपुरे स्थिते इनडोर् स्टेडियम् इत्यस्मिन् स्थले विश्वकर्माजयंती-अवसरे श्रमविभागेन सह, प्रदेशस्य 1,84,220 श्रमिकेभ्यः 65 कोटि 16 लक्ष 61 सहस्र 456 रूप्यकाणां सहायता-राशिं प्रत्यक्षलाभान्तरणेन (DBT) प्रदास्यति। कार्यक्रमस्य अध्यक्षतां श्रममन्त्री लखनलालदेवाङ्गनः करिष्यति।

अस्मिन् अवसरे छत्तीसगढभवनं च अन्यसन्निर्माणकर्मकार-कल्याणमण्डलस्य अध्यक्षः डॉ. रामप्रतापसिंहः अन्ये जनप्रतिनिधयः च उपस्थिताः भविष्यन्ति। मुख्यमंत्री विष्णुदेवसायस्य मार्गदर्शनेन प्रदेशस्य श्रमवीराणां कृते आर्थिकसहाय्यं, तेषां संबल-निर्माणं च कर्तुं मण्डलेन विविधानि योजनानि सञ्चालितानि सन्ति।

मण्डलेन 1,77,049 निर्माण-श्रमिकेभ्यः 58 कोटि 32 लक्ष 38 सहस्र 136 रूप्यकाणि, छत्तीसगढ-असंगठित-कर्मकार-राज्य-सामाजिक-सुरक्षा-मण्डलेन 3,839 हितग्राहिणां खातासु 4 कोटि 77 लक्ष 50 सहस्र 750 रूप्यकाणि, तथा छत्तीसगढ-श्रम-कल्याण-मण्डलेन 3,332 हितग्राहिणां अधिकोशेषु 2 कोटि 06 लक्ष 72 सहस्र 570 रूप्यकाणि प्रत्यक्षलाभान्तरणेन (DBT) अन्तरितानि भविष्यन्ति।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता