Enter your Email Address to subscribe to our newsletters
नवदेहली, 16 सितंबरमासः (हि.स.)। दिल्लीप्रदेशस्य मुख्यमन्त्री रेखा गुप्ता मङ्गलवासरे सिक्खपन्थस्य प्रथमगुरोः श्रीगुरुनानकदेवस्य ज्योतिर्ज्योतिदिवसे तं नत्वा श्रद्धाञ्जलिं दत्तवती।
रेखागुप्ता सोशलमाध्यममञ्चे X इति नाम्नि लेखं प्रकाश्य लिखितवती यत् – “मानवजातिं प्रति प्रेमसमता-सेवायाः दिव्यम् उपदेशं दत्तवान् सिक्खपन्थस्य प्रथमगुरुः श्रीगुरुनानकदेवः। तस्य ज्योतिर्ज्योतिदिवसे मम कोटिकोटिनमः। गुरुनानकदेवः स्वं सम्पूर्णजीवनं लोककल्याणाय आत्मोत्थानाय च समर्पितवान्। तस्य उपदेशाः अस्मान् सदा करुणायाः, समरसतायाः, सत्यस्य च मार्गे अग्रसर्तुं प्रेरयिष्यन्ति।”
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता