Enter your Email Address to subscribe to our newsletters
भोपालम्, 16 सितम्बरमासः (हि.स.)।
मध्यप्रदेशस्य राजधानी-नगर भोपालम् मध्ये जनपद-विकास-समन्वय-निगराणी-समितेः (दिशा) बैठकः अद्य (मङ्गलवासरे) सायं चतुर्ष्वधिके घटीके (04.00) जनपद-पञ्चायत् सभागृहे आयोज्यते। अस्याः सभायाः अध्यक्षतां क्षेत्रीयसांसदः, समितेः अध्यक्षः च आलोकशर्मा करिष्यति।
जनपदपञ्चायत् भोपालस्य मुख्यकार्यपालनाधिकारिणी ईला तिवारी उक्तवती यत् अस्मिन् सम्मिलने एम.पी.आर. विद्युत्-वितरण-समिति, जलसंसाधन-विभागः, नगरीय-प्रशासन-विभागः, स्वास्थ्य-विभागः, स्मार्ट्-सिटी-परियोजना, आबकारी-विभागः, प्रधानमंत्री-ग्रामीण-मार्ग-योजना, कृषि-विभागः, सामाजिक-न्याय-विभागः, शिक्षा-विभागः (प्रधानमन्त्री-पोषण-योजना) इत्यादयः विभागाः अध्यक्षस्य अनुमत्यनुसारं स्वीयं कार्यसूचीं तथा अद्यतनं विवरणं सह उपस्थास्यन्ति।
हिन्दुस्थान समाचार / अंशु गुप्ता