Enter your Email Address to subscribe to our newsletters
हरदोई,16 सितंबरमासः (हि. स.)।राज्य–शैक्षिक–अनुसन्धान–प्रशिक्षण–परिषद् लखनौ–नगरे सप्तमं राज्य–स्तरीयं कथा–श्रवण–स्पर्धां आयोजिता। अस्मिन् स्पर्धायां 75 जनपदेषु श्रेष्ठतया चयनिताः प्रायः 150 शिक्षकाः सहभागिनः अभवन्।
जिला–मूल–शिक्षा–अधिकारी वी.पी.सिंह इत्याख्यः अवदत् यत् हरदोई–जनपदस्य प्राथमिक–विद्यालये जामु (सण्डीला) इत्यत्र कार्यरतया प्रियांका जायसवाल नाम्ना अध्यापिका, उच्च–प्राथमिक–विद्यालये अटवा इत्यत्र तलतजहाँ नाम्ना अध्यापिका च राज्य–स्तरीय–पुरस्काराय चयनिते स्तः।अस्याः पूर्वं प्रियांका जायसवाल नाम्न्याः उत्कृष्ठ–शिक्षण–कार्येषु कृतेषु HCL–संस्थया बेस्ट् टीचर् अवार्ड्, हरदोई–जिलाध्यक्षेन (DM) महिला–सशक्तिकरण–पुरस्कारः च, अन्ये च अनेके सम्मानाः प्राप्ताः आसन्।
हिन्दुस्थान समाचार