प्रबलवृष्टेः लोहितचेतावनी-प्रकाशनस्य परिणामस्वरूपम् अद्य जनपदे अवकाशः घोषितः
नैनीतालम्, 16 सितंबरमासः (हि.स.)। भारतमौसमविज्ञानविभागेन 14 सितम्बरदिनाङ्के उत्तराखण्डस्य अनेकांशेषु प्रबलातिप्रबलवृष्टेः सम्भावना इति सूच्य लोहितचेतावनी प्रकाशिताऽभूत्। अस्याः अन्तर्गतं नैनीतालजनपदोऽपि गण्यते। अनवरतं प्रवर्तमानवृष्टेः सम्भाव्यमानं च
आज अवकाश घोषित


जिलाधिकारी वंदना सिंह।


नैनीतालम्, 16 सितंबरमासः (हि.स.)। भारतमौसमविज्ञानविभागेन 14 सितम्बरदिनाङ्के उत्तराखण्डस्य अनेकांशेषु प्रबलातिप्रबलवृष्टेः सम्भावना इति सूच्य लोहितचेतावनी प्रकाशिताऽभूत्। अस्याः अन्तर्गतं नैनीतालजनपदोऽपि गण्यते। अनवरतं प्रवर्तमानवृष्टेः सम्भाव्यमानं च आपद्भयं दृष्ट्वा जनपदप्रशासनम् विद्यार्थिसुरक्ष्यर्थं मङ्गलवासरे 16 सितम्बरदिनाङ्के कक्षा-१-१२ पर्यन्तं संचालितेषु सर्वेषु शासकीय-अशासकीय-निजविद्यालयेषु सह आङ्गनवाडीकेन्द्रेषु च एकदिवसीयावकाशं घोषितवान्।

मङ्गलवासरस्य प्रभाते निर्गते आदेशे जिलाधिकारी वन्दना अवदत् यत् भूस्खलन-मार्गावरोध-जलभराव-नदीप्रवाहवृद्धि-सम्भावनां दृष्ट्वैव अयं निर्णयः कृतः। सह सर्वे शिक्षण-प्रशासनाधिकाऱिणः अपि आवश्यकतानुसारं स्वकार्यालयेषु उपस्थिति करिष्यन्ति इति निर्देशाः दत्ताः, यत् आपदावस्थायां शीघ्रं समन्वयः सुनिश्चितः स्यात्।

उल्लेखनीयम् यत् पिथौरागढजनपदस्य धारचूल-मुनस्यारी-डीडीहाटतहसीलासु अपि मङ्गलवासरे विद्यालयेषु अवकाशः घोषितः।

तथैव नैनीतालजनपदमुख्यालये सह विविधप्रदेशेषु सोमवासरसायंप्रभृति निरन्तरं प्रबलवृष्टिः प्रवहति स्म।

हिन्दुस्थान समाचार / अंशु गुप्ता