Enter your Email Address to subscribe to our newsletters
उज्जैनम्, 16 सितंबरमासः (हि.स.)। भारतीय-ओलम्पिक-क्रीडक्रीडिका पद्मश्री पी.टी. उषा मङ्गलवासरे उज्जयिन्यां स्थितं विश्वप्रसिद्धं महाकालेश्वर-मन्दिरं प्राप्तवती। तत्र सा स्वपतिना सह बाबामहाकालस्य दर्शनं कृत्वा तस्य आशीर्वादं स्वीकृतवती। पतिना सह गर्भगृहस्य देहल्यां भगवानस्य पूजनार्चनं च अकरोत्। मन्दिरस्य पुजारी आशीषगुरु पूजनं कारितवान्।
पूजनानन्तरं मन्दिर-प्रबन्ध-समितिः पद्मश्री पी.टी. उषायै प्रसादं उत्तरीयम् च समर्प्य सम्मानं अकरोत्।
माध्यमैः सह संवादे पी.टी. उषा अवदत् – “महाकालस्य विषये बहु श्रुतवती। अत्र आगन्तुं दीर्घकालात् अभिलाषा आसीत्। बाबायाः आह्वानेन अद्य दर्शनं कृत्वा मम मनः शान्तिं प्राप्तम्। पूर्वं अपि अत्र आगमनाय अनेकानि निमन्त्रणानि प्राप्तानि, किन्तु केवलं बाबा इत्यस्य आह्वानेन आगन्तुं शक्यं जातम्।”
तया उक्तम् – “महाकालं प्रति सर्वेषां सुखशान्तये प्रार्थना कृतवती। भारतदेशे क्रीडायाः उन्नतेः कृते, च देशे ओलम्पिक्-आयोजनाय प्रधानमन्त्रिणः मोदीमहाभागस्य स्वप्नस्य पूर्तये अपि प्रार्थितवती। स्वस्य विद्यालयस्य उन्नतेः, पुत्रस्य सुखसमृद्धेः च निमित्तम् अपि आशीर्वादं याचितवती।”
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता