मध्यप्रदेशे अद्य अतिवृष्टेः निवृत्तिः, लघु-वृष्टेः सम्भावना, अग्रिमत्रिदिवसेषु एवमेव भविष्यति मौसमः
प्रदेशेऽद्यावधिः 42.1 इञ्च् वर्षा जाता। भोपालम्, 16 सितम्बरमासः (हि.स.)। मध्यप्रदेशे गतद्विदिनात् चक्रवातसदृशवायुप्रवाहस्य कारणेन अनेकेषु जनपदेषु वर्षा प्रचलिता आसीत्। राजधानी-भोपालम् सहितं बहुषु मण्डलेषु तीव्रा वर्षा अपि अभवत्। अद्य तु एषा प्रणालीः
मौसम (फाइल फोटो)


प्रदेशेऽद्यावधिः 42.1 इञ्च् वर्षा जाता।

भोपालम्, 16 सितम्बरमासः (हि.स.)। मध्यप्रदेशे गतद्विदिनात् चक्रवातसदृशवायुप्रवाहस्य कारणेन अनेकेषु जनपदेषु वर्षा प्रचलिता आसीत्। राजधानी-भोपालम् सहितं बहुषु मण्डलेषु तीव्रा वर्षा अपि अभवत्। अद्य तु एषा प्रणालीः मंगलवासरे निवर्तिष्यते। तस्मात् प्रदेशे कतरेषु अपि स्थलेषु अतिवृष्टेः सम्भावना नास्ति। प्रदेशे आगामिदिनत्रयपर्यन्तं लघु-वृष्टेः क्रमः प्रचलिष्यते।

वातावरणविभागस्य अनुसारं यदि स्थानीयप्रणालीनां सक्रियता भविष्यति तर्हि केषुचित् जनपदेषु तीव्रं जलपातः अपि सम्भवेत्। अस्मात् पूर्वं सोमवासरे भोपालनगरे आदिवसे दीप्तसूर्ये जातस्य अनन्तरं सायं 5 वादने अति-वृष्टिः अभवत्। कतिपये स्थलेषु अर्धहोरापर्यन्तं तीव्रं जलम् अपतत्। रायसेन, सतना, मण्डला, पचमढी, नर्मदापुरम्, छिन्दवाडा, दमोह, जबलपुर, सीवनी इत्येतेषु क्षेत्रेषु अपि वर्षा जाता। रायसेन-जनपदे अधिकतमं 2 इञ्च् जलम् अपतत्। सतनायां एकसप्तमांशे इञ्च्, मण्डला-पचमढीषु अर्ध-इञ्च् अपि वर्षा जाता।

वातावरणविभागः उक्तवान् यत् रविवासरे राजस्थानराज्यस्य कतिपये मण्डलात् वर्षाकालस्य प्रतिनिवृत्तिः जाता। अग्रिमद्वित्रिदिवसेषु पंजाब-गुजरातदेशयोः कतिप्रदेशेभ्यः अपि वर्षाकालः प्रतिनिवर्तिष्यते। ततः परं मध्यप्रदेशात् अपि वर्षाकालस्य प्रतिनिवृत्तिः आरभ्यते। तथापि सितम्बरमासे वर्षाक्रमः निरन्तरं भविष्यति। ज्ञातव्यं यत् प्रदेशे अद्यावधि 42.1 इञ्च् औसतवृष्टिः जाता। यावत् 35.2 इञ्च् जलपातः अपेक्षितः आसीत्। अस्य अनुसारं 6.9 इञ्च् अधिकं जलम् अपतत्। प्रदेशस्य सामान्यवृष्टिः 37 इञ्च् अस्ति। एषः कोटा गतसप्ताहे एव पूर्णः जातः। अस्मिन् वर्षाकाले इन्दौर-उज्जैन-सम्भागयोः स्थिति: न साधु आसीत्। अत्र न्यूनतमवृष्टिः अभवत्। न्यूनवृष्टियुक्तेषु शीर्ष-5 जनपदेषु बुरहानपुरम्, बडवानी, खण्डवा, खरगोन, शाजापुरं एते संलग्नानि सन्ति।

हिन्दुस्थान समाचार / अंशु गुप्ता