Enter your Email Address to subscribe to our newsletters
भोपालम् , १६ सितम्बरमासः (हि.स.)।
मध्यप्रदेशराजधान्याः भोपालस्य परिचयचिह्नं यत् ऐतिहासिकं बडीझील् नामकं सरः, तत् अद्य रोमाञ्चप्रतिस्पर्धयोः अद्वितीयसङ्गमं भविष्यति। सेलिङ्गस्पर्धा–२०२५ इत्यत्र राष्ट्रस्य सर्वतो नामख्याताः नाविकाः स्वकौशलं प्रदर्शयिष्यन्ति। अत्र अद्य (मङ्गलवासरे) षोडशदिनांकतः एकविंशतिदिनांकपर्यन्तं 'राजाभोज् मल्टिक्लास् सेलिङ्ग् स्पर्धा'–२०२५ नामकस्य आयोजनं क्रियते। राज्यस्य क्रीडायुवकल्याणमन्त्री विश्वासकैलाशसारङ्गः अद्य अस्य स्पर्धायाः शुभारम्भं करिष्यति।
जनसम्पर्काधिकारिणा दुर्गेशरायकवारः अनेन सूचितं यत्— जलक्रीडाप्रतियोगितायाः प्रोत्साहनार्थं राज्यसर्वकारेण यत् यत् प्रयत्नाः क्रियन्ते, तेषाम् आभासः अपि अस्मिन् आयोजने दृश्यते। राष्ट्रस्य विभिन्नप्रदेशेभ्यः चयनिताः नाविकाः अस्यां स्पर्धायाम् भागं ग्रहीष्यन्ति। एषः उत्सवः न केवलं नाविकानां प्रतिस्पर्धायाः मंचं भविष्यति, अपि तु बडीझीलस्य पर्यटनम् अन्तर्राष्ट्रीयख्यातिं च नवोन्नतिं नयिष्यति।
अस्य आयोजनस्य अन्तर्गते राजाभोज् मल्टिक्लास् सेलिङ्ग् स्पर्धायाः मध्ये नाविकानां रोमाञ्चपूर्णाः प्रतिस्पर्धाः भविष्यन्ति, सह स्थानीयनागरिकाः पर्यटकाः च खानूग्रामतटे अद्वितीयानुभवं प्राप्स्यन्ति। आयोजनं केवलं क्रीडाक्षेत्रे न, अपि तु भोपालस्य सांस्कृतिकपर्यटनधरोहरे अपि विशेषमूल्यं धारयिष्यति।
अपरसरोवरस्य गौरवशालीइतिहासः
भोपालस्थिते अपरसरोवरे १९९६ तमवर्षात् एव सेलिङ्ग् प्रतियोगिताः आयोज्यन्ते। २००६ तमवर्षे अत्र नेशनल् सेलिङ्ग् स्कूल् संस्थापिता, २०१६ तमवर्षे आर्मी एड्वेन्चर् नोडल् सेन्टर् इत्यत्र विंड्सर्फिङ्ग् प्रारब्धा। राज्यस्य नाविकाः १४१ राष्ट्रियपदकान्, ४ अन्तर्राष्ट्रीयपदकान् च जित्वा मध्यप्रदेशं राष्ट्रं च गौरवितवन्तः।
हिन्दुस्थान समाचार / अंशु गुप्ता