Enter your Email Address to subscribe to our newsletters
पटना, 16 सितंबरमासः (हि.स.)।बिहारराज्ये कतिपयान् मासानन्तरं विधानसभाचुनावः भविष्यति। अस्मिन् सन्दर्भेण सरकारेण निरन्तरं नानाविधानि घोषणानि क्रियमाणानि सन्ति। तस्मिन्नेव क्रमणि मङ्गलवासरे मुख्यमन्त्री नीतिशकुमारः अन्यां घोषणां कृतवन्तः।मुख्यमन्त्री नीतिशकुमारः स्वस्य सामाजिकमाध्यमहस्तेभ्यः घोषयन् उक्तवान् यत्, बिहारराज्ये सप्तनिश्चययोजनायाः अन्तर्गतं द्वादशकक्ष्यां उत्तीर्णाः छात्राः ये उच्चशिक्षां प्राप्नुवन्ति इच्छन्ति, तेषां कृते द्वितीयऑक्टोबर २०१६ तः बिहार-विद्यार्थी-ऋणपत्र-योजना प्रवर्तिता।अस्याः योजनायाः अन्तर्गतं उच्चशिक्षायै अधिकतमं चत्वारि लक्षरूप्यकाणि पर्यन्तं शैक्षणिकऋणं दत्तं भवति। सामान्येभ्यः आवेदकेभ्यः चत्वारि प्रतिशतं व्याजं प्रवर्तते, स्त्रीभ्यः दिव्याङ्गेभ्यः च ट्रान्स्जेन्डराभ्यश्च केवलं एकं प्रतिशतव्याजेन एव दत्तं भवति।
मुख्यमन्त्रिणः उक्तवन्तः— अद्य अहं अतीव हृष्टः अस्मि यत्, अधुना अस्याः विद्यार्थी-ऋणपत्र-योजनायाः अन्तर्गतं दत्तं शैक्षणिकऋणं सर्वेषां आवेदकानां कृते व्याजरहितं भविष्यति।पूर्वं यत् द्विलक्षरूप्यकपर्यन्तं ऋणं षष्टौ मासिककिस्तिषु (पञ्चवर्षेषु) प्रत्यर्पणीयं भवेत्, तत् अधुना वर्धितं कृत्वा चतुरशीतिं मासिककिस्तिषु (सप्तवर्षेषु) प्रत्यर्पणीयं कृतम्। द्विलक्षात् अधिकं ऋणं पूर्वं चतुरशीतिं किस्तिषु (सप्तवर्षेषु) प्रत्यर्पणीयं, इदानीं तु तदपि वर्धितं कृत्वा एकशतं विंशतिं किस्तिषु (दशवर्षेषु) प्रत्यर्पणीयं कृतम्।ते उक्तवन्तः अस्माकं प्रयोजनं भवति यत् राज्यस्य अधिकाधिकाः छात्राः छात्र्यश्च उच्चशिक्षां लभेरन्। शैक्षणिकऋणस्य एतेन प्रकारेण दत्तसुविधाभिः छात्राणां उत्साहः मनोबलं च वर्धिष्यते। तेऽपि अधिकेन उत्साहेन लग्नतया च उच्चशिक्षां प्राप्य स्वस्य भविष्यं राज्यस्य च राष्ट्रस्य च भविष्यं शोभयिष्यन्ति।
---------------
हिन्दुस्थान समाचार