Enter your Email Address to subscribe to our newsletters
राजौरी, 15 सितंबरमासः (हि.स.)।जम्मू–कश्मीरस्य मुख्यपरिवहनसंपर्कः, जम्मू–श्रीनगर–राष्ट्रीयमार्गः, महानिर्बन्धेन अवरुद्धः जातः। ततोऽनन्तरं ऐतिहासिकः मुग़लमार्गः एव घाट्याः एकैव जीवनरेखा इव प्रादुरभूत्, येन सहस्रसङ्ख्यकनिवासिनां प्रति आवश्यकवस्तूनां निरन्तर–आपूर्तिः सुनिश्चितीक्रियते।
उधमपुरजिलायाः थराडप्रदेशे मार्गस्य महत् भागः अतिवृष्टौ धस्मानः आसीत्। तस्मात् अयं मुख्यः जम्मू–श्रीनगर–मार्गः दशदिनपर्यन्तं पूर्णतया अवरुद्धः आसीत्। अस्य मार्गस्य निर्बन्धेन जम्मू–चिनाब–घाटी–कश्मीरप्रदेशानाम् अन्तरसंपर्कः विच्छिन्नः अभवत्। चतुर्दिनात् अंशतः पुनर्बहालीकृतस्यापि मार्गस्य वर्तमानकाले केवलं लघुमोटरवाहनानाम् नियन्त्रिता एकलेन–यात्रा एव सम्भवति, येन महत् यातायात् प्रायः विघ्नितः।
जम्मू–श्रीनगर–रेलमार्गस्य अपि निर्बन्धेन संकटं तीव्रतरं जातम्। तस्मात् परिवाहकाः दक्षिणकश्मीरस्य शोपियांनगरं जम्मू–राजौरी–पुंछजिलैः संयोजयन् ९० कि.मी. दीर्घः विकल्पमार्गः – मुग़लमार्गः – प्रति प्रवृत्ताः। अस्य मार्गस्य पर्वतीयप्रदेशेषु भीडभारः, द्वितीयेऽह्नि एव महत्–वाहनानाम् एकदिक्–यात्रा च सन्ति। तथापि मुग़लमार्गः एव कश्मीर–घाट्याः प्रधान–आपूर्तिगलिका जाता।धान्य–शाक–इन्धनादिवस्तुभिः सह सहस्रशः ट्रक्–वाहनानि प्रतिदिनं अनेन मार्गेण गच्छन्ति, येन घाट्याः महती राहतिः जात। स्थानीय–अधिकारीणः, वाहनचालकाः च, मुग़लमार्गस्य दबावं स्वीकुर्वन्ति, तथापि सम्पूर्णतया आपूर्ति–संकटस्य निवारणं तस्य एव कृत्यमिति वदन्ति।यदा महत्–वाहनानां काफिला पीर–की–गली–दर्रं गच्छति, तदा अयं मार्गः लाघव–प्रतीकः इव दृश्यते, च अस्य प्रदेशस्य नाजुक–पर्वतीय–मार्गेषु आश्रयस्य स्मारकम् अपि भवति।राजौरी–व्यापारमण्डलस्य अध्यक्षः, राजेशगुप्तः उर्फ बिट्टूशाह इत्याख्यः, अवदत् यन्मुग़लमार्गः न केवलं पीरपञ्जालप्रदेशस्य अर्थव्यवस्थां बृंहितवान्, किन्तु अधुना कश्मीर–घाट्याः जीवनरेखा जातः। वर्तमानकाले अयं मार्गः एकमेव विश्वसनीयः सम्पर्कमार्गः”। सः सुझावं दत्तवान् यत्—“हिमऋतौ अतिशीतात् बर्फवृष्ट्या यः भागः बन्दो भवति, तत्र यदि सुरङ्गा निर्मीयेत, तर्हि वार्षिक–संपर्कः सुनिश्चितः भविष्यति।पी.डी.पी. प्रवक्ता तजीम्दार् अपि उक्तवान्—“मुग़लमार्गः ऐतिहासिकः राजनीतिकश्च महत्त्ववान्। एषः स्वप्नसदृशः परियोजना आसीत्। दिवङ्गतः मुफ्ती–मोहम्मद–सईदेन अस्य मार्गस्य साकाराय महत् यत्नः कृतः, परं अधुना भाग्याधीनेन एव अस्ति।” सः अपि उक्तवान्—“अस्मिन संकटे अस्य विकल्पमार्गस्य महत्त्वं प्रकाशितम्। यदा अल्पप्राथमिकः अयं मार्गः एव घाट्याः जीवनरेखा जातः, परं अत्यन्तव्यस्तः जम्मू–श्रीनगर–राष्ट्रियमार्गः विफलः अभवत्।यातायात–जम्मू–ग्रामीण–पुलिसअधीक्षकः गिरधरिलालशर्मा नामकः अवदत्—“मुग़लमार्गे वाहनेषु निर्बाधयात्रा सुनिश्चितुं सर्वतोपायः प्रयुज्यते। यातायातस्य मार्ग–परिवर्तनात् मुग़लमार्गे, तदनुबद्धे जम्मू–राजौरी–पुंछ–राष्ट्रीयमार्गे च कतिपया भीडभारः जातः। तथापि अस्माकं जनाः आवश्यकतानुसारं यथाशक्ति नियंत्रयन्ति, रात्रौ अपि कार्यं कुर्वन्ति। आवश्यकवस्तुभिः युक्तानां ट्रक्–वाहनानां सुरक्षितयात्रा सुनिश्चितुं सर्वं यत्नं क्रियते।
हिन्दुस्थान समाचार