बिहारस्य 16 लक्षात् अधिक निर्माण श्रमिकाणां कोषे DBT माध्यमेन 802 कोट्यधिक 46 लक्षोत्तर 45 सहस्ररुप्यकाणां राशिः हस्तांतरिष्यते
विहारः, 17 सितंबरमासः (हि.स.)। बिहारराज्ये विश्वकर्मा-पूजायाः अवसरं प्रति विशिष्टो निर्णय बिहार-सर्वकारेण ‘बिहार भवन एवं अन्य सन्निर्माण कर्मकार कल्याण बोर्ड्’ (Bihar Building and Other Construction Workers Welfare Board) इत्यस्य अन्तर्गतं श्रमिकाण
बिहारस्य 16 लक्षात् अधिक निर्माण श्रमिकाणां कोषे DBT माध्यमेन 802 कोट्यधिक 46 लक्षोत्तर 45 सहस्ररुप्यकाणां राशिः हस्तांतरिष्यते


विहारः, 17 सितंबरमासः (हि.स.)।

बिहारराज्ये विश्वकर्मा-पूजायाः अवसरं प्रति विशिष्टो निर्णय

बिहार-सर्वकारेण ‘बिहार भवन एवं अन्य सन्निर्माण कर्मकार कल्याण बोर्ड्’ (Bihar Building and Other Construction Workers Welfare Board) इत्यस्य अन्तर्गतं श्रमिकाणां खातेषु अद्य वित्तराशेः हस्तान्तरणं क्रियते।

एतत् सूचनां सामाजिक-माध्यम-हस्ते मुख्यमन्त्रिणा नीतिशकुमारेन प्रकाशितम्। ते उक्तवन्तः यत् – “अद्यैव सृष्टेः प्रणेता भगवान् विश्वकर्मा-पूजन-दिवसः अस्ति। अद्यैव प्रधानमन्त्रिणः नरेन्द्रमोदिनः अपि जन्मदिवसः। प्रधानमन्त्रिणा देशस्य नागरिकानां च उत्कर्षाय अनवरतं, निरन्तरं च परिश्रमः क्रियते। एषः शुभः संयोगः अस्ति यत् अस्मिन् दिने ‘बिहार भवन एवं अन्य सन्निर्माण कर्मकार कल्याण बोर्ड्’ अन्तर्गतं श्रमिकाणां कोषेषु वित्तराशेः प्रत्यक्षं हस्तान्तरणं क्रियते।

मुख्यमन्त्रिणा ज्ञापितम् यत् – “अद्य षोडश लक्षं चत्वारि सहस्राणि नवश्च श्रमिकाणां खातेषु ‘वार्षिक-वस्त्र-सहायता-योजना’ अन्तर्गतं प्रतिश्रमिकं पञ्चसहस्र-रूप्यकपर्यन्तं वित्तराशिः प्रत्यक्षं हस्तान्तरीकृता। अस्यां योजनायां कुलम् ८०२ कोट्यः ४६ लक्षाणि ४५ सहस्र-रूप्यकाणि श्रमिकेषु वितरितानि।”

एतेन निर्माणकर्मसु संलग्नस्य श्रमिकवर्गस्य सामाजिक-आर्थिक-जीवनम् उत्तमं भविष्यति। अस्मिन् सुअवसरे “मुख्यमन्त्री प्रतिज्ञा-योजना”-नामकस्य वेब-पोर्टलस्य अपि उद्घाटनं क्रियते।

मुख्यमन्त्री अवदत् – “समाजस्य अन्तिमपदस्थाः अपि मुख्यधारायां आनयितुं वयं आद्यादारभ्य प्रयत्नं कुर्मः। राज्यं यथा विभिन्नेषु क्षेत्रेषु नूतनानाम् आयामानाम् आलम्बनं करोति, तस्मिन् अस्माकं श्रमिकभ्रातॄणां भगिनीनां च योगदानम् अतुलनीयम् अस्ति। तेषां विकासाय सर्वकारं सततं कार्यं करिष्यति।

अन्ते मुख्यमन्त्रिणा प्रधानमन्त्रिणं नरेन्द्रमोदिनं तस्य जन्मदिने शुभकामनाः अभिनन्दनानि च प्रदत्तानि।

---------------

हिन्दुस्थान समाचार