प्रधानमन्त्रिणः मोदिनः पञ्चसप्ततितमे जन्मदिने बङ्गाल-भाजपा-नेतृभिः दत्ता शुभकामनाः
कोलकाता, १७ सितम्बरमासः (हि.स.)। प्रधानमन्त्रिणः नरेन्द्र-मोदिनः पञ्चसप्ततितमे जन्मदिने पश्चिमबङ्गालप्रदेशे भारतीयजनतादलस्य (भाजपा) वरिष्ठनेतारः बुधवासरे तस्मै शुभकामनाः दत्तवन्तः। अस्मिन् अवसरे प्रदेशाध्यक्षः राज्यसभासदः च समिक-भट्टाचार्य प्रधानमन्
प्रधानमंत्री नरेंद्र मोदी


कोलकाता, १७ सितम्बरमासः (हि.स.)। प्रधानमन्त्रिणः नरेन्द्र-मोदिनः पञ्चसप्ततितमे जन्मदिने पश्चिमबङ्गालप्रदेशे भारतीयजनतादलस्य (भाजपा) वरिष्ठनेतारः बुधवासरे तस्मै शुभकामनाः दत्तवन्तः।

अस्मिन् अवसरे प्रदेशाध्यक्षः राज्यसभासदः च समिक-भट्टाचार्य प्रधानमन्त्रिणं भारतस्य गौरवम्, विश्वनेतारम्, जनतानां नेतारम्, आत्मनिर्भर-भारतस्य निर्माणकर्तारं च इति निर्दिश्य उक्तवान् यत् सः ‘एकभारत-श्रेष्ठभारत’स्य निर्माणकर्ता अस्ति। तेन संदेशे लिखितम्—नरेन्द्रः मोदी मानवता-नेतृत्व-आत्मविश्वासानां च प्रतीकः।

विधानसभायाः विपक्षनेता शुभेंदुः अधिकारी स्वस्य शुभकामना-सन्देशे प्रधानमन्त्रारं आत्मनिर्भर-भारतस्य प्रणेता, विश्वे मान्यः भारतीयप्रधानमन्त्री च इति अभिधाय अभिनन्दितवान्।

केंद्रीय-राज्यमन्त्री भाजपायाः पूर्व-प्रदेशाध्यक्षः सुकान्तः मजूमदारः उक्तवान्—प्रधानमन्त्रिणः मातृभूमेः प्रति अद्वितीयं समर्पणम्, अथकं परिश्रमम्, दूरदर्शी नेतृत्वं, अटूटं देशभक्तिं च करोड़भारतीयानां प्रेरणास्रोतं जातम्। सः अवदत्—नरेन्द्रस्य मोदिनः मार्गदर्शनात् भारतं निरन्तरं नूतनानि शिखराणि स्पृशति, आत्मनिर्भरत्वस्य वैश्विकमानस्य च दिशि आत्मविश्वासेन अग्रे गच्छति।

प्रधानमन्त्रिणः जन्मदिनं विशेषं कर्तुं बङ्गाल-भाजपायाः बुधवासरे अनेकाः कार्यक्रमाः आयोजिता:। कोलकातायाः ‘इण्डियन म्यूजियम’ इत्यस्मिन् प्रधानमन्त्रिणः मोदिनः जीवनम् आधृत्य महती प्रदर्शनी स्थापिताऽस्ति। तदनन्तरं राज्ये सर्वत्र ‘नरेन्द्र-कप्’ इति नाम्ना फुटबॉल-क्रीडा अपि आयोजिता।

---------------------

हिन्दुस्थान समाचार