Enter your Email Address to subscribe to our newsletters
रायपुरम्, 17 सितंबरमासः (हि.स.)। मुख्यमन्त्रिणः विष्णुदेवसायस्य सह अद्य बुधवासरे राजधानीरायपुरे स्थिते मुख्यमन्त्रिगृहे केन्द्रीयमहिला-शिशुविकासमन्त्रिण्या अन्नपूर्णादेव्याः सौजन्यभेटा अभवत्।
मुख्यमन्त्रिणा सायेन केन्द्रीयमहिला-शिशुविकासमन्त्रिण्या अन्नपूर्णादेव्याः सह छत्तीसगढराज्ये स्त्रीसशक्तीकरणं, बालकानां पोषणं शिक्षा च सम्बन्धिनः प्रवर्तमानप्रयत्नाः संविभागिताः। तेन आशा व्यक्ता यत् केन्द्रीयराज्यसरकारे मिलित्वा अस्मिन् क्षेत्रेऽधिकं प्रभावीकार्यं करिष्यतः।
अस्मिन् अवसरे प्रदेशस्य महिला-शिशुविकासमन्त्रिणी लक्ष्मीराजवाडे, छत्तीसगढराज्यबालाधिकारसंरक्षणआयोगस्य अध्यक्षा वर्णिकाशर्मा च उपस्थिताः आसन्।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता