Enter your Email Address to subscribe to our newsletters
कोलकाता, 17 सितंबरमासः (हि.स.)।पश्चिमबङ्गस्य मुख्यमन्त्रिणी ममता बनर्जी बुधवासरे विश्वकर्मा–पूजायाः अवसरं प्रति राज्ये सरकारी–अवकाशस्य घोषणां कृतवती। सा अवदत् यत् अस्य वर्षस्य निर्णयः विशेषः अस्ति, यतः अयं प्रवासीभ्यः श्रमिकेभ्यः, ये परदेशे कार्यं कुर्वन्ति, सम्मानं दत्त्वा गृहीतः।
सूक्ष्मब्लॉगिंग–जालस्थले X इत्यस्मिन् मुख्यमन्त्रिण्या एकं सन्देशं प्रकाशितं यत्र सा सर्वेभ्यः विश्वकर्मा–पूजायाः हार्दिकं शुभाशंसनं कृतवती। सा अवदत् यत् अस्मिन् वर्षे प्रवासी–श्रमिकान् सम्मानयितुं राज्य–सरकारया विश्वकर्मा–पूजायाम् अवकाशः घोषितः।गौरवनीयम् यत् विश्वकर्मा–पूजा प्रायः श्रमिकैः, शिल्पिभिः, तांत्रिक–कार्यकारिभिः, औद्योगिक–एककस्थैः च महता धूमधामना आचर्यते। प्रवासी–श्रमिकानां जीवनं अस्य उत्सवस्य साक्षात् सम्बद्धं भवति, यतः एषः वर्गः एव परिश्रमेण तांत्रिक–दक्षतया च समाजम् अग्रे नयति।उल्लेखनीयम् यत् १७ सितम्बर–तिथौ अखिले देशे भक्त्या श्रद्धया च विश्वकर्मा–पूजायाः महोत्सवः आचर्यते। पश्चिमबङ्गेऽपि प्रातःकालादेव जनाः स्वस्व–गृहेषु, कार्यालयेषु च वाहनानां, यन्त्राणां, विविधोपकरणानां च पूजायां निरता आसन्।
हिन्दुस्थान समाचार