Enter your Email Address to subscribe to our newsletters
कटिहारः, १७ सितम्बरमासः (हि.स.)। “स्वच्छता-ही-सेवा २०२५” पखवाड़ा इत्यस्य संचालनाय समाहरणालयस्य एन्.आइ.सी.-सभागारे महत्वपूर्णा गोष्ठी अभवत्। अस्याः सभायाः अध्यक्षता जिलाधिकारी मनेशकुमारमीणा अकुरुत, विभिन्नविभागानां अधिकारीणः अपि उपस्थिताः आसन्।
जिलाधिकारी अवदत् यत् अस्मिन् पखवाडे स्वच्छ-हरित-उत्सवस्य आयोजनाय विशेषः बलः दास्यते। स्वच्छता, जनभागीदारी, सामुदायिक-उत्सवेषु शून्य-कचराभावः, पर्यावरणानुकूलता च मुख्यलक्ष्यं भविष्यति। अस्मिन् अभियानाय विभागसंस्थानादिभ्यः सहयोगः ग्राह्यः भविष्यति।
उपविकासआयुक्तेन सूचितं यत् अस्य पखवाड़ा इत्यस्य विषयः “स्वच्छोत्सवः” इति, यस्य पञ्च स्तम्भाः सन्ति—(१) स्वच्छता-लक्षित-इकाई-परिचयः, (२) सार्वजनिकस्थलानां स्वच्छता, (३) स्वच्छतामित्र-सुरक्षाशिविरम्, (४) स्वच्छ-हरित-उत्सवाः, (५) स्वच्छतायाः प्रति जनजागरूकताऽभियानम्।
अभियाने विभिन्नाः गतिविधयः आयोज्यन्ते, येन अधिकतम-जनभागीदारी सुनिश्चितुं शक्यते। लक्ष्यं च यत् वर्षे २०२५–२६ पर्यन्तं सर्वे ग्रामाः ओ.डी.एफ्.-प्लस् इति स्थायिरूपेण घोषयितुं शक्येरन्, ठोस-तरल-अपशिष्ट-व्यवस्थापनस्य दृढतया।
---------------
हिन्दुस्थान समाचार