Enter your Email Address to subscribe to our newsletters
उज्जैनम्, 17 सितंबरमासः (हि.स.)।मध्यप्रदेशस्य उज्जयिनी-जिलायां स्थिते विश्व-प्रसिद्धे महाकालेश्वर-मन्दिरे प्रबन्ध-समित्या “उमा-सांझी-महोत्सवः” अद्य (बुधवासरे) आरभ्य २१ सितम्बर-तिथिं यावत् उत्साहेन आयोजनं क्रियते। अस्याः अवसरे मन्दिर-परिवारस्य पुरोहित-पुजारयः प्रतिदिनं रंगोलि-सज्जां करिष्यन्ति, माण्डनानि च निर्मास्यन्ति। भगवान् महाकालस्य विविधानि मुखारविन्द-रूपाणि झांकी-रूपेण अलङ्कृतानि दर्शयिष्यन्ते।
मन्दिर-प्रशासकः प्रथमः कौशिकः उक्तवान् यत् महोत्सवस्य आद्य-दिने बुधवासरे प्रातः शासकीय-पुजारी पण्डितः घनश्यामः शर्मा नाम घट-स्थापनां करिष्यति। संध्या-आरत्या अनन्तरं वसन्त-पूजा भविष्यति। सायं सप्तवादने-अर्धे आरभ्य सांस्कृतिक-कार्यक्रमे अन्तर्गतम्—प्रीति देवले-नाम्नी लोक-गायिका स्वाति उखले-नाम्नी च लोक-नर्तकी समूहेन सह प्रस्तुतीं करिष्यतः।
महोत्सवस्य अन्तर्गतं २२ सितम्बर-तिथौ कन्या-भोजः भविष्यति। २३ सितम्बर-तिथौ माता पार्वती रजत-पालक्यां विराजमाना नगर-भ्रमणं करिष्यति। सवारी महाकाल-चौराहात् आरभ्य तोपखानं, दौलतगञ्ज-चौराहं, सराफा, छत्री-चौकं च गत्वा शिप्रा-नद्याः तटं प्रति यास्यति। तत्र जवारे-संजा- विसर्जनं कृत्वा सवारी कहारवाडी, बक्षी-बाजारं गत्वा पुनः महाकालेश्वर-मन्दिरं प्रत्यागमिष्यति।
विशेषतया ज्ञायते यत् महाकाल-मन्दिरे “उमा-सांझी-महोत्सवः” पञ्च-दिवसीयः सांस्कृतिकः उत्सवः अस्ति। अयं प्रति-वर्षं आश्विन-कृष्ण-पक्षे एकादश्यां आरभ्य आयोजितः भवति। अत्र प्रतिदिनं सायं-आरत्या अनन्तरं लोक-गायनं, लोक-वादनं, लोक-नृत्यं च कार्यक्रमरूपेण क्रियते। महोत्सव-समाप्तौ उमा-मातुः आरूढभव्यतया निष्क्रान्ता भवति।
---------------
हिन्दुस्थान समाचार