Enter your Email Address to subscribe to our newsletters
उत्तरकाशी, 17 सितंबरमासः (हि.स.)।प्रधानमन्त्रिणः नरेन्द्रमोदिनो जन्मदिने पुरोलातहसीलमुख्यालये बहुद्देशीयः शिविरम् आयोजितम्। विधायकः दुर्गेश्वरलालः, नगरपालिकाध्यक्षः बिहारीलालशाहः अन्यैः जनप्रतिनिधिभिः सह दीपप्रज्वलनं कृत्वा कार्यक्रमस्य शुभारम्भं कृतवन्तः।
दीपप्रज्वलनानन्तरं कार्यक्रमे उपस्थितजनाः प्रधानमन्त्रिणः नरेन्द्रमोदीमहाशयस्य देशाभिभाषणं श्रुतवन्तः। नरेन्द्रमोदीमहाशयः भारतस्य सैनिकानां प्रशंसा कृत्वा अवदत्— “पार्श्वदेशस्य दुष्टकर्मणां प्रत्युत्तरं अस्माकं सशस्त्रबलैः ‘ऑपरेशन सिन्धूर’ इत्याख्येन दत्तं, यस्मिन् सर्वाणि पाकिस्तानदेशस्थितानि आतंकिस्थानानि विनष्टानि।”
सोऽवदत् “अस्माकं वैज्ञानिकैः ‘विक्रम–३२’ इत्याख्या स्वकीयः अर्धचालकचिप् निर्मितः, अनेन भारतं सेमीकण्डक्टरकृते विदेशेषु निर्भरं न भविष्यति।”
अवसरे अस्मिन् विधायकः दुर्गेश्वरलालः प्रधानमन्त्रिणं प्रति पुरोलाविधानसभाजनानां नाम्ना जन्मदिनशुभकामनाः प्रेषितवान्। सः अवदत् यत् “प्रधानमन्त्रिणः मार्गदर्शने, मुख्यमन्त्रिणः पुष्करसिंहधामीमहाशयस्य च कुशलनेतृत्वे, उत्तराखण्डराज्यं निरन्तरं प्रगतिपथे अग्रे गच्छति। मुख्यमन्त्री धामीमहाशयेन पुरोलाविधानसभाजनानां अपेक्षाः पूरयितुं विविधानि योजनानि क्रियान्वितानि।”
सः अवदत् यद् “आगामिवर्षेषु पुरोलाविधानसभायाः ग्रामः कश्चन अपि मार्गेण रहितः न भविष्यति।” एवमेव विधायकः दुर्गेश्वरलालः “एकं वृक्षं मातुः नाम्ना रोपितवान् राष्ट्राय समर्पितवान् च।”
बहुद्देशीयशिविरे विविधानि विभागानि स्वस्वस्थानानि स्थाप्य लोकसमस्याः तत्रैव निराकृतवन्तः। समाजकल्याणविभागः, स्वास्थ्यविभागः, सहकारिताविभागः, कृषिविभागः, उद्यानविभागः, शिक्षाविभागः इत्यादयः नागरिकेभ्यः आवश्यकसामग्रीं जानकारीं च दत्तवन्तः।
अस्मिन् शिविरे राजकीयआदर्शविद्यालयस्य चन्देली-शाखायाः छात्रैः विविधाः आदर्शमॉडलाः प्रदर्शिताः। यथा— अखरोटभञ्जनयन्त्रः, धूमरहितचुल्लः, धाननिर्गमनयन्त्रं च। एतेषां दर्शनेन सर्वे मोहिताः।
अवसरे अस्मिन् उपस्थिताः— उपजिलाधिकारी मुकेशरमोला, खण्डविकासाधिकारी सुरेशचौहानः, राजपालपंवारः, पूर्वनगरपंचायता अध्यक्षः पी.एल. हिमानी, ओमप्रकाशनौडियालः, दिनेशुनियालः, नवीनगैरोला, भाजपाजिलाउपाध्यक्षः पवननोटियालः, मण्डलाध्यक्षः रामचन्द्रपंवारः, मण्डलमहामन्त्री शीशपालरावतः, रमेशबिजल्वाणः, अर्जुनचौहानः, रघुबीरपंवारः, बलदेवरावतः, गोविन्दरामनौटियालः, कुलदीपः, फूलचन्दः, बद्रीप्रसादनौडियालः, जयवीरसिंहनागराजः, संजय रावतः इत्यादयः। पुरोलाविधानसभायाः विशालः जनसमूहः अपि उपस्थितः।
--------------
हिन्दुस्थान समाचार