Enter your Email Address to subscribe to our newsletters
भाेपालम्, 18 सितंबरमासः (हि.स.)। अद्य गुरुवासरे कालजयी-योद्धाराम् राजा-शंकर-शाहं कुंवर-रघुनाथ-शाहं च बलिदान-दिवसः आचर्यते। एते अमर-बलिदानी-वीरौ भारतस्य स्वाधीनता-संग्रामे प्रथमतः प्राणाञ् अर्प्य अमर-प्रतीकौ अभवताम्।
मुख्यमंत्री डॉ. मोहन-यादवः एतौ स्मृत्वा विनम्रं नमनं कृतवन्तः। ते सोशल-मीडिया एक्स इत्यस्मिन् लेखित्वा अवदन्—
स्वाधीनता-संग्रामस्य अमर-बलिदानी राजा-शंकर-शाह-जीं कुंवर-रघुनाथ-शाह-जीं च अहं कोटि-कोटि नमनं करॊमि। राष्ट्र-स्वाधीनतायै तयोः अदम्य-साहसः, अमर-शौर्यम्, अद्वितीय-बलिदानं च अस्माकं सर्वेषां प्रेरणास्रोतः अस्ति। तयोः त्यागः अनागत-पीढीनाम् अन्तःकरणे राष्ट्रभक्तेः पवित्र-ज्योतिं नित्यम् प्रज्वलयिष्यति।
मुख्यमन्त्रिणः जबलपुरकार्यक्रमः
मुख्यमंत्री डॉ. यादवः आज जबलपुरे विशेष-कार्यक्रमेषु भागं करिष्यन्ति—
प्रातः १०:२५ वादने भोपालतः प्रस्थानं करिष्यन्ति।
प्रातः ११:०५ वादने जबलपुरं प्राप्य राजा-शंकर-शाह-कुंवर-रघुनाथ-शाह-मूर्तिस्थले पुष्पमालां समर्पयिष्यन्ति।
प्रातः ११:४५ वादने रानी-दुर्गावती-चिकित्सालये स्वच्छता-अभियाने श्रमदानं करिष्यन्ति।
प्रातः ११:५५ वादने राजा-शंकर-शाह-कुंवर-रघुनाथ-शाह-संग्रहालयं द्रष्टुं गमिष्यन्ति।
अपराह्णे १२:१५ वादने नेताजी सुभाषचन्द्र बोस सूचना-संस्कृति-केन्द्रे आयोजिते बलिदान-दिवस-कार्यक्रमे सम्मिलिष्यन्ति।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता