Enter your Email Address to subscribe to our newsletters
गांधीनगरम्, 18 सितंबरमासः (हि.स.)। मुख्यमन्त्रिणा भूपेन्द्रेण पटेलमहाभागेन प्रधानमन्त्रिणः नरेन्द्रमोदीमहाभागस्य पञ्चसप्ततितमजन्मदिने मातृगयातीर्थे सिद्धपुरे निर्मितं ‘मातृश्री हीराबा सरोवरम्’ लोकार्पितम्।
सिद्धपुरम्। बुधवासरे मुख्यमन्त्री भूपेन्द्रः पटेलः प्रधानमन्त्रिणः श्रीनरेन्द्रमोदीमहाभागस्य पञ्चसप्ततितमजन्मोत्सवस्य अवसरं दृष्ट्वा मातृगयातीर्थे सिद्धपुरे नूतननिर्मितं मातृश्री हीराबा सरोवरम् उद्घाटितवान्।
राज्यसूचनाविभागेन प्रदत्ते निवेदने उक्तम् यत् एतत्सरोवरम् नर्मदा–जलसंसाधन–जलापूर्ति–कल्पसरविभागेन लोकमाता सरस्वत्याः नवसर्जनाय प्रयुक्तप्रयासे अन्तर्गतं निर्मितम्।
राज्यसर्वकारेण धोलकिया–फाउण्डेशनस्य फुलीबा–ट्रस्टस्य च सहयोगेन आरब्धः अयं सरस्वती–नदी–पुनर्जीवन–यत्नः सफलः जातः। तस्य परिणामरूपेण माधुपावडिया–नदीबन्धस्य अधोलोकस्य कटावः निवारितः, चतुश्शतानि पञ्चाशत्–लक्षं घनफुट् जलसञ्चयः सम्भविष्यति। अस्य फलस्वरूपं शतपञ्चाशत् हेक्टेयर् क्षेत्रस्य प्रत्यक्षं परोक्षं वा सिंचनं भविष्यति, समीपवर्तिनः च विंशतिः अधिका भूमिगर्भकूपाः जलपूरणेन समृद्धाः भविष्यन्ति।
मुख्यमन्त्रिणा उक्तं यत्, “प्रधानमन्त्री श्रीमोदीबाल्ये मातुः हीराबायाः जलार्थं क्लेशानुभूतिं दृष्टवान्। तस्मात् प्रेरितः सन् तेन उत्तरगुजरातं सह अखिलगुजरातं जलसमस्यातः मुक्तं कर्तुम् अटलः संकल्पः कृतः।”
तेन अपि स्मारितं यत् 2005 तमे वर्षे ऋषिपञ्चमीपुण्यदिने लोकमाता सरस्वत्यां पुण्यसलिलया नर्मदाया साबरमत्याः च नीरस्य जलाभिषेकः कृतः आसीत्। एवं सरस्वती–नर्मदा–महासंगमस्य ऐतिहासिकः प्रकल्पः प्रारब्धः आसीत्।
मुख्यमन्त्रिणा *‘एकं वृक्षं मातुः नाम्ना’* इति प्रधानमन्त्रिणा प्रवर्तितः अभियानः, तथा *‘कैच द रेन’* इत्यादयः पर्यावरणोन्मुखाः यत्नाः, सर्वेभ्यः सहभागितायै प्रेरणास्वरूपेण निर्दिष्टाः।
अस्मिन् अवसरे सिद्धपुरस्य जनप्रतिनिधयः उद्योगमन्त्री बलवन्तसिंहः राजपूतः, जलापूर्ति–जलसंसाधनमन्त्री कुँवरजीभाई बावळिया, पर्यटनमन्त्री मूलुभाई बेरा, सांसदः भरतसिंहः डाभी, विधायकः लविङ्गजी ठाकोरः च अन्ये अनेकाः पदाधिकारीणः, अधिकारीणः, सिद्धपुरस्य ग्रामजनाः च उपस्थिताः आसन्।
------------------
हिन्दुस्थान समाचार / ANSHU GUPTA