Enter your Email Address to subscribe to our newsletters
रीवा, 18 सितम्बरमासः (हि.स.)।मध्यप्रदेशस्य रीवाजिल्लायां युवा-संगम-कार्यक्रमस्य अन्तर्गते संभागीय-आइटीआइ-प्रांगणे अद्य गुरुवासरे प्रातः ११ वादनात् द्विप्रहरपर्यन्तं (द्वादश-द्वयम्) रोजगार-मेला इत्यस्य आयोजनं क्रियते। अस्मिन् मेलापके जिलोत्पन्नाः निर्जीविकाः युवक-युवत्यः विविधासु संस्थासु रोजगार-अवसरान् लप्स्यन्ते।अस्मिन् सम्बन्धे रोजगार-उपसंचालकः अनिल-दुबे इत्यनेन उक्तं यत्—अस्मिन् मेले ३१ संस्थाभिः यूनां चयनं भविष्यति। मेलापकस्य अन्तर्भवितुं विभिन्नासु संस्थासु युवकानां युवतीनाम् आयु-सीमा च शैक्षणिक-योग्यता च पृथक् पृथक् निर्दिष्टा अस्ति। वेतनं च भृत्यदक्षिणा च सप्तसहस्रात् पञ्चत्रिंशत्सहस्रपर्यन्तम् निश्चितम्। वेतन-भृत्यादयः कम्पनीभेदेन भिन्नाः भविष्यन्ति।युवकेभ्यः अनिवार्यम् अस्ति यत्—ते स्वसहितं मूल-अंकसूचीं निवास-प्रमाणपत्रस्य छायाप्रतिं, आधारपत्रं वा मतदान-पत्रं, जीविका-कार्यालये जीवित-पंजीकरणं, नवीनौ द्वौ पासपोर्ट-आकारस्य चित्रौ च आनयन्तु।उपसंचालक-दुबेद्वारा अपि उक्तम्—अस्मिन् रोजगार-मेलापके निम्नलिखिताः संस्थानां नामानि सन्ति यत्र यूनां चयनं भविष्यति जीएमसीसी मीडिया इण्डिया प्रा. लि. पुणे (महाराष्ट्र),फुलम्ब्रा टेक्स्ट कॉम प्रा. लि. सानन्द (गुजरात), ट्रायडेन्ट कम्पनी बुधनी-सिहोर, डी एण्ड एच सेचरोन कम्पनी इन्दौर (आइसेक्ट), विनप्रेज इन्फो मीडिया प्रा. लि. मैहर, यशस्वी ग्रुप भोपाल, प्रगतिशील बायोटेक प्रा. लि. रीवा, बजाज ऑटो लि. पुणे (महाराष्ट्र), आमधनी प्रा. लि. (अपोलो टायर्स) गुजरात, फुरूकावा मिंडा इलेक्ट्रिक प्रा. लि. हरियाणा, हिंडाल्को इंडस्ट्रीज रेणुकुट सोनभद्र (उत्तरप्रदेश), प्रभा बायोप्लान्ट्स प्रा. लि. रीवा, मिग्मा पैकट्रोन प्रा. लि. रीवा, प्रगतिशील एग्रोटेक प्रा. लि. रीवा,एच.डी.एफ.सी. जीवन-बीमा-कम्पनी रीवा, प्रगतिशील बायोटेक प्रा. लि. सवेरा सतना, स्वतंत्र माइक्रोफिन प्रा. लि. भोपाल, ग्रोफास्ट एग्रिटेक प्रा. लि. जबलपुर, भारतीय जीवन-बीमा-निगम रीवा, अलर्ट एसजीएस प्रा. लि. रायपुर (छत्तीसगढ़),हिन्द-फार्मा भोपाल, भारती-एक्सा जीवन-बीमा प्रा. लि. रीवा,विन्ध्या टेलीलिंक लि. चोरहटा (रीवा),श्री-फूड-प्रोडक्ट्स उद्योग-विहार चोरहटा (रीवा),ग्रेट-आर्गेनिक-डायमण्ड प्रा. लि. सागर, उन्नति एग्रोटेक रामवन सज्जनपुर सतना, जस्ट डायल रीवा, फ्लिपकार्ट रीवा,कन्टेम्परेरी सर्विसेज कॉर्पोरेशन इण्डिया प्रा. लि. (सीएससी) इन्दौर,प्रतिभा सिन्टेक्स लि. पीथमपुर धार, टैलेंटकॉर्प सॉल्यूशन्स प्रा. लि. चाकन। एतेषु सर्वेषु संस्थानेषु युवानां युवतीनां च रोजगार-अवसराः उपलभ्यन्ते।
हिन्दुस्थान समाचार