Enter your Email Address to subscribe to our newsletters
भोपालम्, 18 सितम्बरमासः (हि.स.)। मध्यप्रदेशे डिजिटल-संचालनं सेवाच सुरक्षया सुदृढं कर्तुं “राष्ट्रीय-साइबर-सुरक्षा-अभ्यासः – साइबर भारत सेतु : ब्रिजिंग स्टेट्स, सिक्योरिंग भारत” इत्यस्य द्विदिनीयकार्यशालायाः आयोजनं भोपालनगरे होटेल् पलाश इत्यस्मिन् गुरुवासरप्रातः १० वादनात् आरब्धम्।
विज्ञान-प्रौद्योगिकी-विभागस्य अपर-मुख्यसचिवः संजय-दुबे इत्यनेन निगदितं यत्, कार्यशाला मध्यप्रदेश-कम्प्यूटर-इमर्जेन्सी-रिस्पॉन्स्-टीम् (CERT-MP) तथा भारतीय-कम्प्यूटर-इमर्जेन्सी-रिस्पॉन्स्-टीम् (CERT-IN) इत्ययोः संयुक्त-तत्त्वावधानने सम्पद्यते। अस्य मुख्योद्देश्यः वर्धमानस्य साइबर-सुरक्षा-महत्त्वस्य सूचनं कृत्वा, डिजिटल-बुनियादी-ढाँचे संरक्षयितुं, साइबर-खतरैः सह सम्यग् युध्यितुं च क्षमता-निर्माणम्।
अत्र कार्यशालायां विविध-विभागानां अधिकारीणः, जिला-स्तरस्य मुख्य-सूचना-सुरक्षा-अधिकारीणः च सहभागी भविष्यन्ति। सीईआरटी-इन इत्यस्मात् वैज्ञानिकाः—आशुतोषः बहुगुणा, शशांकः गुप्ता, मोहितः कटारिया—अपि उपस्थिताः भविष्यन्ति।
हिन्दुस्थान समाचार / अंशु गुप्ता