मध्यप्रदेशस्य मुख्यमन्त्री अद्य बडवारायां 233 कोटिरुप्यकाणां विकासकार्यानां भूमिपूजनम्–लोकार्पणं करिष्यति
भोपालम्, 18 सितम्बरमासः (हि.स.)। मध्यप्रदेशे मुख्यमन्त्री डॉ. मोहनयादवस्य बडवाराप्रवासः – 233.82 कोटि रुप्यकाणां विकासकार्याणि। कटनीजनपदे बडवारायां गुरुवासरे आयोज्यमाने विशेष-कार्यक्रमे मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहनयादवः सहभागी भविष्यन्ति। अत्
सीएम मोहन यादव (फाइल फोटो)


भोपालम्, 18 सितम्बरमासः (हि.स.)। मध्यप्रदेशे मुख्यमन्त्री डॉ. मोहनयादवस्य बडवाराप्रवासः – 233.82 कोटि रुप्यकाणां विकासकार्याणि।

कटनीजनपदे बडवारायां गुरुवासरे आयोज्यमाने विशेष-कार्यक्रमे मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहनयादवः सहभागी भविष्यन्ति। अत्र सः बडवार–रीठी विकासखण्डयोः नूतननिर्मितयोः सांदीपनि-विद्यालयभवनयोः लोकार्पणं करिष्यति, तथा 233.82 कोटि रुप्यकाणां विकासपरियोजनानां जनसमुदायाय सौगातं दास्यति।

मुख्यमन्त्रिणा 106.18 कोटि रुप्यकाणां मूल्ययुक्तानि 19 विकासकार्यानि लोकार्पितानि भविष्यन्ति तथा 127.64 कोटि रुप्यकाणां मूल्ययुक्तानि 14 कार्याणि भूमिपूजितानि भविष्यन्ति। अस्मिन् अवसरः सः हितग्राहिभ्यः विविध-जनकल्याणकारी-योजनानां लाभान् अपि वितरिष्यति।

हितलाभवितरणम्अधिकारी मनोजकुमार-श्रीवास्तवेन प्रदत्तसूचनां अनुसारं मुख्यमन्त्री निःशुल्क-स्कूटी-वितरण-योजना, लाडली-लक्ष्मी छात्रवृत्ति, मुख्यमन्त्री उद्यम-क्रान्ति-योजना, ग्रामीण-आजीविका-मिशन, ई-कृषि-यंत्रीकरण-अनुदान-योजना इत्यादिषु हितग्राहिभ्यः लाभान् प्रदास्यति।

प्रदर्शनी-आयोजनम्मुख्यमन्त्री सेवा-पखवाड़-अभियान विषयवस्तुना आयोज्यमानां वृहद्-प्रदर्शनीं द्रष्टुं गमिष्यन्ति। अत्र—

राष्ट्रीय-ग्रामीण-आजीविका-मिशन अन्तर्गतं “वोकल् फॉर लोकल्” भावनायाः सशक्तिकरणाय स्वसहायतासमूहैः निर्मिताः उत्पादाः प्रदर्शिताः भविष्यन्ति।जनपदे व्यापार-उद्योग-केंद्रस्य आयोजनतः *“एक-जिला-एक-उत्पाद” कार्यक्रमान्तर्गतं कटनी-सैंड-स्टोन निर्मिताः कलाकृतयः प्रदर्शिताः भविष्यन्ति।स्वास्थ्य-विभागेन विशेष-शिविरः आयोज्यते, यत्र स्वास्थ्य-परीक्षणम्, आयुष्मान्-कार्ड-निर्माणम्, च *“स्वस्थ नारी–सशक्त परिवार” विषयान्तर्गतं महिला-बालविकास-विभागेन गैरसंचारी-रोगाणां स्क्रीनिंग, “श्री अन्न” उत्पन्नेषु खाद्यपदार्थानां च प्रदर्शनं भविष्यति।सामाजिक-न्याय-विभागेन दिव्याङ्गजनानां ई-स्क्रीनिंग तथा कृत्रिम-उपकरणानां प्रदर्शनी भविष्यति। नगरीय-प्रशासन-विभागेन “स्वच्छता ही सेवा-पखवाड़” विषयकानि विविधानि क्रियाकलापानि अपि प्रदर्शितानि भविष्यन्ति।

विशेष-कार्यक्रमाःमुख्यमन्त्री डॉ. यादवः *“एकं वृक्षं मातुः नाम्ना”, “एकां बगियाम् मातुः नाम्ना” कार्यक्रमयोः अन्तर्गतं वृक्षारोपणं करिष्यति, छात्राणां कक्षायां गत्वा तैः सह चर्चाम् अपि करिष्यति।

हिन्दुस्थान समाचार / अंशु गुप्ता