Enter your Email Address to subscribe to our newsletters
अगरतला, 22 सितंबरमासः (हि.स.)। त्रिपुराराज्ये अन्ताराष्ट्रियसीमायाम् गोतस्कर्याः निरोधाय आयोजित-अभियाने सीमा-सुरक्षाबलस्य (BSF) सजगाः सैनिकाः महत् सफलतां प्राप्तवन्तः।
सोमवासरे प्रदत्तायाः अधिकृतसूचनायाः अनुसारं बीएसएफ-सैनिकैः अनेकेषां प्रयासानां विफलनं कृत्वा ११ गवां बाङ्ग्लादेशं प्रति प्रेषणं निवारितम्।
अधिकृतैः सूचितं यत् तस्कर्याः क्रियायाः नियन्त्रणाय सीमा-प्रदेशे निगराणी अधिकं दृढीकृता अस्ति।
हिन्दुस्थान समाचार