Enter your Email Address to subscribe to our newsletters
गोरखपुरम्, 22 सितंबरमासः (हि.स.)।
नैक्ट्-जेन् जी.एस्.टी. परिष्कारः (अग्रिम-पीढ्यायै जी.एस्.टी.परिष्कारः) सोमवासरे आरब्धः। अस्य विषयं प्रति मुख्यमन्त्री योगी आदित्यनाथः प्रदेश-सरकारया पूर्वमेव निधारितं ‘जी.एस्.टी. परिष्कारजागरूकता-अभियानस्य’ प्रथमः चरणः स्वयमेव व्यापारीभ्यः ग्राहकैश्च जनसंपर्केन आरब्धवान्। सोमवासरे प्रातःकाले मुख्यमन्त्री पदयात्रां कृत्वा झूलेलाल्-मन्दिरात् गोरखनाथ-मन्दिरमार्गपर्यन्तं व्यापारी प्रतिष्ठानेषु व्यापरिणः तत्रापस्थितः ग्राहकाश्च सह संवादं कृतवन्तः। तेषां जी.एस्.टी. परिष्कारेषु प्रतिक्रियाः श्रोतव्या।
मुख्यमन्त्री योगी व्यापरिभ्यः आग्रहं कृतवन्तः — यत् मोदी-सरकारात् उपहाररूपेण घटितं जी.एस्.टी. ग्राहकैः अवश्यं प्रदत्तव्यम्। तदनन्तरं स्वदेशी-उत्पादानां संवर्धनाय प्रतिष्ठानेषु “गर्वेण वद एष स्वदेशी अस्ति” इत्यस्य विज्ञापणफलकम् अपि स्थापयितव्यम्।
उल्लेखनीयम् यत् प्रधानमन्त्रिणा नरेन्द्र मोदिना मार्गदर्शनं कृत्वा जी.एस्.टी. परिषद् ३ सितम्बर दिनाङ्के एकस्मिन् समीक्षासभायाम् कर-परिष्कारस्य निर्णयम् अकृतम्। एष निर्णयः सोमवासरे प्रभावी जातः। अस्य संदर्भे मुख्यमन्त्री योगी आदित्यनाथः समीक्षासभायां २२–२९ सितम्बरपर्यन्तं ‘जी.एस्.टी. परिष्कारजागरूकता-अभियानस्य’ प्रथमः चरणः प्रारम्भनीय इति निर्णयं कृतवन्तः। सोमवासरे तु गोरखपुरे स्वयमेव पदयात्रा, जनसंपर्कं च संवादं च कृत्वा एषः शुभारम्भः कृतः। एतेषु ते जी.एस्.टी. घटित-दराणां विषयं च ज्ञातवन्तः। तेषां अवमूल्यस्य-संबद्धं एकं स्टीकरं गुलाबपुष्पं च प्रदत्तम्। एवं च अवदत् यत् अवमूल्य लाभं ग्राहकैः दातव्यम्। अनेन व्यापरः अपि समृद्धः भविष्यति।
अभियाने मुख्यमन्त्री प्रथमं ‘स्टाइल्-बजारं’ आगतवान्। अत्र प्रतिष्ठानस्य उच्च-प्रबंधनं तं स्वागतं कृतवन्तः। मुख्यमन्त्री स्वयमेव प्रतिष्ठानस्य मुख्यद्वारे अवमूल्यस्य-जी.एस्.टी.-इत्यस्य सूच्णापत्रम् लेपितवन्तः। स्नेहपूर्णं भावेन प्रतिष्ठानस्य मेंटर् राजेन्द्र खुराना, एम्.डी. श्रेयांश खुराना, निदेशकः प्रदीप अग्रवाल च पृष्टवन्तः यत् वस्त्रेषु जी.एस्.टी. घटिता कति। ज्ञातं यत् १२ प्रतिशतात् ५ प्रतिशतं जातम्, मुख्यमन्त्री अवदत् यत् एतेन भवतः विपणी दृढा भविष्यति। तस्मात् प्रधानमंत्री नरेन्द्र मोदिना धन्यवादः दत्त्वा ग्राहकैः घटित-दरस्य लाभः अवश्यं प्रदत्तव्यम्। प्रतिष्ठान-प्रबंधनम् अवदत् यत् लाभः प्रदत्तव्या आरब्धः।
अनन्तरं मुख्यमन्त्री पदयात्रां कृत्वा ‘न्यू स्वीट्स् पैलेस’-संस्थां प्रति गतवान्। अत्र आपणिकः बिहारीलाल् जतिनलाल् च तत्र घटित-दरविषये संवादं कृतवन्तः। आपणिकः अवदत् यत् घटित-मूल्यस्य लाभं ग्राहकैः प्रदत्तव्यम् आरब्धम्। मुख्यमन्त्री तान् स्टीकरं प्रदत्तवन्तः, “सर्वे जनाः प्रधानमंत्री मोदी प्रति जी.एस्.टी. सुधाराय कृतज्ञतां प्रकटयन्तु।”
व्यापारिभ्यः ग्राहकैश्च संवादे मुख्यमन्त्री गीता होलसेल् मार्ट् प्रतिष्ठान-संचालकः शम्भू शाहं अभवत् — “जी.एस्.टी. दरसंशोधनस्य विषयं ग्राहकैः स्वयं जागरूकं कुर्वन्तु। एतत् ग्राहकाय लाभकारी, भवतः बजारः अपि समृद्धः भविष्यति।”
प्रेम् मेडिकल्स् प्रतिष्ठाने जायत्वा औषधिनां मूल्य-अवमूल्ये विषये चर्चां कृतवान्। दुकानदारः विनय प्रजापति आकाश प्रजापति च अवदत् यत् जीवनरक्षक-दवानां करः शून्यः जातः, अन्येषु दवानि केवलं ५ प्रतिशतं कर-अन्तर्गतानि। अद्यादारभ्य लाभः ग्राहकैः प्रदत्तः।
मुख्यमन्त्री ‘सिटी-कार्ट्’, ‘श्री होम्यो स्टोर्स्’, ‘रंगोली-कलक्शन’, ‘गोरखनाथ्-मिष्ठान्’, ‘जयदेव भवन’, ‘श्री हनुमान् कटरा’ च प्रतिष्ठानेषु व्यापरिभ्यः ग्राहकैश्च संवादं कृतवान्, स्टीकरं च प्रदत्तवान्। अवदत् — “प्रधानमन्त्रिणा नरेन्द्र मोदिना व्यापरिभ्यः दीर्घकालात् याचितः जी.एस्.टी. सुधारः प्रवर्तितः, तस्मात् धन्यवादः प्रदत्तव्यम्।”
अत्र आपणिकाः आमजनाः च पुष्पवर्षया मुख्यमन्त्रीं स्वागतवन्तः। पदयात्रायाम् घोषः जातः — “घटी जी.एस्.टी., वर्धा व्यापारः, धन्यवाद मोदी सर्वकारः।” एतेषु सांसदः रविकिशन शुक्लः, महापौरः डॉ. मंगलेश् श्रीवास्तवः, एम्.एल्.सी. तथा भाजपा-प्रदेश-उपाध्यक्षः डॉ. धर्मेन्द्रसिंहः, विधायकः विपिनसिंहः, महेन्द्रपालसिंहः, क्षेत्रीय अध्यक्षः सहजानन्द रायः, महानगरसंयोजकः राजेश् गुप्ता, नगर-निगम उपसभापति पवन त्रिपाठी च पदयात्रायाम् सम्मिलिताः।
जी.एस्.टी. परिष्कारस्य विषयं प्रति पदयात्रायाम् गीता होलसेल् मार्ट् प्रतिष्ठाने मुख्यमन्त्री योगी आदित्यनाथः शम्भू शाहेन सह संवादे अवदत् —“केंद्रसरकारेण जी.एस्.टी. मूल्यं न्यूनः कृत्वा वस्त्र-क्षेत्रं पुनः दृढं कृतम्।”
---------------
हिन्दुस्थान समाचार / ANSHU GUPTA