Enter your Email Address to subscribe to our newsletters
रायपुरम्, 23 सितंबरमासः (हि.स.)।छत्तीसगढ़राज्ये आगामिनि चतुर्विंशतिघण्टाभ्यन्तरे भारीवृष्टेः सम्भावना व्यक्ता। मौसमविभागेन जशपुर, कोरबा, रायगढ़, नारायणपुरादिषु षोडश जनपदेषु कृते ‘पीतसतर्कसूचना’ प्रकाशितः। एषा वर्षास्थितिः २३ सितम्बरतः २७ सितम्बरपर्यन्तं स्थास्यति। राजधानी रायपुरेऽपि अस्मिन् समये लघु-मध्यमवृष्टेः सम्भावना वर्तते, यत्र मेघगर्जनं विद्युत्पातश्च सम्भाव्यते।
वातावरणविभागस्य सूचनानुसारं उत्तरपूर्व-बङ्गालसागरस्य पार्श्वे अल्पदाबक्षेत्रं जातम्। तस्मात् प्रदेशे सागरतः आर्द्रवायुः प्रवेक्ष्यति। २५ सितम्बरतः नूतनं प्रणालीरूपं सृष्टं भविष्यति, यः २७ सितम्बरतः दक्षिण-ओडिशा-उत्तर-आन्ध्रप्रदेशयोः तटं लङ्घयिष्यति। तस्य प्रभावः छत्तीसगढ़े भविष्यति।
वातावरणविभागेन आगामिनि त्रिघण्टाभ्यन्तरे राज्यस्य बहुषु जनपदेषु वर्षायाः चेतावनी दत्ता। धमतरी, गरियाबन्द, महासमुन्द-जनपदेषु मेघगर्जनं, आकाशीयविद्युत्पातः, आकस्मिकं तीव्रवायुप्रवाहं, मध्यमवृष्टिश्च सम्भाव्यन्ते। अत्र ‘नारङ्गसतर्कसूचना’ (Orange Alert) दत्ता।
कोंडागाव, उत्तर-बस्तर-कांकेर, धमतरी, गरियाबन्द, महासमुन्द, रायपुर-प्रदेशेषु लघुवृष्टेः सम्भावना अपि वर्तते। अत्र ‘पीतसतर्कसूचना’ प्रदत्ता। राजधानी रायपुरं तस्य समीपप्रदेशांश्च प्रति अद्य सर्वदिनं मेघावरणं भवितुमिति वातावरणविभागेन उक्तम्।
हिन्दुस्थान समाचार