Enter your Email Address to subscribe to our newsletters
रायपुरम्, 23 सितंबरमासः (हि.स.)। मुख्यमन्त्री विष्णुदेव सायः अद्य मङ्गलवासरे, धमतरी जनपदस्य ग्रामे करेलीबङ्डी स्थले आयोजिते राज्यस्तरीये महतारी सदन लोकार्पणकार्यक्रमे ५१ महतारी सदनानि मातृशक्ते समर्पयिष्यन्ति।
अस्मिनैव अवसरणे, मुख्यमन्त्री धमतरी जनपदस्य २४५ कोटी ८० लक्ष मूल्यवती विकासनिर्माणकार्याणां लोकार्पणं अपि करिष्यन्ति।
कार्यक्रमे, उपमुख्यमन्त्री अरुण साव, विजय शर्मा, मन्त्री रामविचार नेताम, मन्त्री टंकराम वर्मा अतिविशिष्टअतिथीनाम् उपस्थिति भविष्यति। अस्मिन् समारोहे सांसदाः रूपकुमारी चौधरी, भोजराज नाग, विधायकः अजयचन्द्राकरः, जिलापञ्चायताध्यक्षः अरुण सार्वा, जनपदाध्यक्षः विरेन्द्र कुमार साहू च विशिष्टअतिथीनां रूपेण उपस्थिताः भविष्यन्ति।
हिन्दुस्थान समाचार / अंशु गुप्ता