मुख्यमंत्री डॉ. यादवो राष्ट्रिय आयुर्वेद दिवसे भगवान धन्वंतरेः प्रतिमायां कृतं माल्यार्पणम्
भोपालम्, 23 सितम्बरमासः (हि.स.) । मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहन–यादवः राष्ट्रिय–आयुर्वेद–दिवसस्य अवसरात् मंगलवारे मुख्यमन्त्री–निवासे आरोग्यदेवता भगवान् धन्वन्तरिम् अर्चयित्वा प्रदेशवासिनां स्वास्थ्यं आरोग्यं च प्रार्थितवान्। मुख्यमन्त्रिणा
मुख्यमंत्री डॉ. मोहन यादव ने भगवान धन्वंतरि की प्रतिमा पर किया माल्यार्पण


भोपालम्, 23 सितम्बरमासः (हि.स.) ।

मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहन–यादवः राष्ट्रिय–आयुर्वेद–दिवसस्य अवसरात् मंगलवारे मुख्यमन्त्री–निवासे आरोग्यदेवता भगवान् धन्वन्तरिम् अर्चयित्वा प्रदेशवासिनां स्वास्थ्यं आरोग्यं च प्रार्थितवान्।

मुख्यमन्त्रिणा डॉ. यादवेन उक्तम् यद्“आयुर्वेदः केवलं चिकित्सा–शास्त्रं नास्ति, अपि तु स्वस्थं जीवनं नीतुं कौशलमपि अस्ति।”

उल्लेखनीयम् यत्— आयुर्वेदं वैज्ञानिकं, प्रमाणाधारितं समग्रं च चिकित्सापद्धतिरूपेण प्रोत्साहयितुं प्रतिवर्षं त्रयोविंशे दिनाङ्के सितम्बरमासस्य आयुर्वेद–दिवसः आचर्यते।

हिन्दुस्थान समाचार