छत्तीसगढ़े शिक्षकाणां विद्यार्थिनाम् उपस्थितिः अधुना मोबाइलएप्पद्वारा भविष्यति
रायपुरम्, 23 सितंबरमासः (हि.स.)। छत्तीसगढराज्यस्य विद्यालयशिक्षाविभागेन शिक्षाव्यवस्थां अधिकं पारदर्शिनीं, अनुशासितां, तन्त्रज्ञानसमृद्धां च कर्तुं हेतोः एकः महत्वपूर्णः उपक्रमः कृतः। गतसन्ध्याकाले प्राप्तसूचनानुसारं विभागेन विद्या-समीक्षा-केन्द्र अ
मोबाइल एप्प से शिक्षकों एवं विद्यार्थियों की उपस्थिति सांकेतिक फाेटाे


रायपुरम्, 23 सितंबरमासः (हि.स.)।

छत्तीसगढराज्यस्य विद्यालयशिक्षाविभागेन शिक्षाव्यवस्थां अधिकं पारदर्शिनीं, अनुशासितां, तन्त्रज्ञानसमृद्धां च कर्तुं हेतोः एकः महत्वपूर्णः उपक्रमः कृतः। गतसन्ध्याकाले प्राप्तसूचनानुसारं विभागेन विद्या-समीक्षा-केन्द्र अन्तर्गतं विशेषं मोबाइल-एप् विकसितं, यस्य माध्यमेन अध्यापकानां विद्यार्थिनां च उपस्थितिरेकॉर्ड् लेख्यते। एषः एप् इदानीं गूगल्-प्लेस्टोर् मध्ये उपलब्धः अस्ति, यस्मिन् प्रत्येकः अध्यापकः अवश्यं डाउनलोड् कृत्वा पञ्जीकरणं करोतु, प्रतिदिनं च स्वीयां उपस्थितिं लेखयतु इति अनिवार्यं कृतम्। अस्य प्रणालीस्य प्रयोगेण शिक्षकमण्डलस्य च छात्रसमूहस्य च उपस्थितिरेकॉर्ड् त्वरितसमये उपलब्धः भविष्यति, येन विद्यालयीन-अनुशासनस्य शिक्षा-गुणतायाश्च उल्लेखनीयः विकासः भविष्यति।

विशेषतया उल्लेख्या यत्— विद्यालय-शिक्षा, ग्रामोद्योग, विधि-विधानकार्यविभागस्य मन्त्री गजेन्द्रयादवः, ४ सितम्बर् २०२५ तमे दिने सम्पन्ने समग्र-शिक्षा-समिक्षासभायाम् अस्य एपस्य त्वरितं प्रवर्तनं कर्तुं आदेशं दत्तवान्। सः हालसमये गुजरात-अध्ययनयात्राम् अपि कृतवान्, यत्र तेन शिक्षाव्यवस्थां सुदृढीकर्तुं प्रयुज्यमानानि तन्त्रज्ञानाधारितव्यवस्था-अवलोकिताः। गुजरात-मॉडलतः प्रेरितः सः छत्तीसगढराज्येऽपि आधुनिकतन्त्रज्ञानाधारितां उपस्थितिप्रणालीं प्रवर्तयितुं बलं दत्तवान्।

छत्तीसगढराज्यस्य एषः एप् गुजरातव्यवस्थायाः अपि अधिकः उन्नतः अस्ति, यतः अस्मिन् जियो-फेंसिंग नामकं विशेषं गुणकं समाविष्टम्। अस्य तन्त्रस्य माध्यमेन अध्यापकाः केवलं तदा उपस्थितिं लेखयितुं शक्नुवन्ति, यदा ते विद्यालयस्य निश्चित-सीमाभ्यन्तरे उपस्थिताः भवन्ति। एवं कृत्वा सुनिश्चितं भविष्यति यत् उपस्थिति केवलं विद्यालयपरिसरेभ्यः एव लेखिता भवेत्। गुजरातराज्ये प्रयुक्ते एप्सु एषा सुविधा नासीत्, येन कतिपयसमये अध्यापकाः गृहातः एव उपस्थितिं लेखयन्ति इति भ्रान्तयः आगता आसन्। छत्तीसगढराज्येऽस्मात् अनुभवात् शिक्षां गृहीत्वा एप् अधिकं सुरक्षितं विश्वसनीयं च कृतम्।

अस्मिन् सन्दर्भे महासमुन्द्, बेमेत्रा, दन्तेवाडा, सूरजपुर, रायगढ इत्येषां जनपदानां जिला-शिक्षाधिकारीणः आदेशं प्राप्नुवन्ति यत् स्वस्व-जनपदे एषस्य शासनादेशस्य कठोरपालनं सुनिश्चितं कुर्वन्तु, सर्वे विद्यालयाध्यक्षाः शिक्षकगणश्च एप्-प्रयोगाय आवश्यकं मार्गदर्शनं सहयोगं च प्रददातु।

एषा नूतना व्यवस्था केवलं उपस्थितिप्रणालीं अधिकं सुव्यवस्थितां पारदर्शिनीं च करिष्यति न, अपि तु विद्यार्थिनां शैक्षिक-प्रगतेः विद्यालयगत-गतिविधीनां च सरल-प्रभाविश-निग्रहणं करिष्यति। शासनस्य विश्वासः अस्ति यत् अस्य तन्त्रज्ञानाधारितस्य उपक्रमस्य परिणामतः छत्तीसगढराज्यस्य विद्यालयेषु शिक्षायाः गुणता सकारात्मकरीत्या संवर्धिता भविष्यति, अनुशासनं कार्यकुशलता च अधिकं सुदृढं भविष्यतः।

हिन्दुस्थान समाचार