पूर्व-मेदिनीपुरे तीव्रगत्या गच्छन्त्या लॉरी-यानेन आकृष्टाः द्वौ मोटर-द्विचक्रयानयात्री मृत्युम् आपन्नौ
पूर्व मेदिनीपुरम्, 23 सितम्बरमासः (हि.स.)। पूर्व-मेदिनीपुर-जनपदस्य हेडियां-थाना-क्षेत्रे कृष्णानगर-प्रदेशे सोमवासर-रात्रौ एकस्यां भीषणमार्गदुर्घटनायां द्वौ युवकौ मृत्युम् आपन्नौ। सायंकाले प्रायः सप्तवादने नन्दकुमारात् कान्थी-दिशं गच्छन्त्या तीव्रगत्य
Bike accident


Accident


पूर्व मेदिनीपुरम्, 23 सितम्बरमासः (हि.स.)। पूर्व-मेदिनीपुर-जनपदस्य हेडियां-थाना-क्षेत्रे कृष्णानगर-प्रदेशे सोमवासर-रात्रौ एकस्यां भीषणमार्गदुर्घटनायां द्वौ युवकौ मृत्युम् आपन्नौ। सायंकाले प्रायः सप्तवादने नन्दकुमारात् कान्थी-दिशं गच्छन्त्या तीव्रगत्या लॉरी-यानेन द्विचक्रिकया सह अपघातः जातः।

प्रत्यक्षदर्शिनां वचनानुसारं वर्षाटोपात् मार्गः फिसलनयुक्तः आसीत्। तस्मिन् मध्ये लॉरी-यानस्य चक्रं स्लिखत्वा वाहनं अनियंत्रितं जातम्, ततः सः द्विचक्रिकायाम् आरोपितवान्। दुर्घटनायाम् उभौ द्विचक्रिका-यात्री युवकौ तत्क्षणमेव दब्धौ जीवनं त्यक्तवन्तौ।

घटनानन्तरं स्थानियेषु जनेषु उद्विग्नता उत्पन्ना। वार्ता प्राप्त्या आरक्षकाः तत्क्षणं आगत्य शवयोः निष्कर्षणार्थं क्रेनं आहूतवन्तः। दुर्घटनायाः कारणेन कतिपय-क्षणपर्यन्तं मार्ग-यातायात् बाधितः अभवत्, पश्चात् आरक्षकैः नियन्त्र्य वाहन-आवागमनं पुनः प्रवर्तितम्।

अकस्माद् जातायाः अस्याः घटनायाः कारणेन समग्रं क्षेत्रं स्तब्धं जातम्। आरक्षकैः उक्तं यत् मृतयोः अद्यावधि परिचयः न ज्ञातः। उभौ शवौ परीक्षणार्थं प्रेषितौ, प्रकरणस्य अनुसन्धानं च आरब्धम्।

हिन्दुस्थान समाचार / अंशु गुप्ता