Enter your Email Address to subscribe to our newsletters
भोपालम्, 23 सितम्बरमासः (हि.स.)।केन्द्रीयमत्स्यपालन-पशुपालन-गव्यमण्डलस्य च तथा पंचायतीराज्यमन्त्रिणः राज्योपमन्त्री एस.पी. सिंह बघेलः अद्य मङ्गलवासरे मध्यप्रदेशस्य एकदिवसीयप्रवासेन दतियानगरे स्थिताः भविष्यन्ति। ते अत्र प्रसिद्धायाः माता-पीताम्बरा-पीठस्य दर्शनाय आगच्छन्ति।नियतकार्यक्रमानुसारं केन्द्रीयराज्यमन्त्री बघेलः मध्याह्ने १२.४० वादनं झांसी-रेलस्थानकात् दतियायाः प्रति प्रयाणं कृत्वा मध्याह्ने १.३५ वादनं दतिया-माता-पीताम्बरा-पीठं प्राप्य पूजाऽर्चनां करिष्यन्ति। ततः परं ते मध्याह्ने २.१० वादनं पीताम्बरा-पीठात् दतियातः झांसीं प्रति प्रस्थानं करिष्यन्ति।
हिन्दुस्थान समाचार