Enter your Email Address to subscribe to our newsletters
शिमला, 24 सितंबरमासः (हि.स.)। जनपदशिमलानगरमध्ये आपदाप्रबन्धनं सुदृढं कर्तुं पञ्चशतपञ्चाशद् युवानः “आपदामित्र-योजना”अन्तर्गतं प्रशिक्षिता भविष्यन्ति। एतेषु युवासु 200 एन.सी.सी., 100 एन.एस.एस., 100 नेहरू-युवा-केन्द्र-योजना तथा 100 भारत-स्काउट्-एण्ड्-गाइड् कार्यक्रमेभ्यः छात्राः सम्मिलिष्यन्ते। उपायुक्तः अनुपम-कश्यपः बुधवासरे सम्पन्नायां समीक्षासभायां ज्ञापितवान् यत् प्रशिक्षणस्यारम्भः 1 अक्तूबर् 2025 तः भविष्यति।
उपायुक्तेन उक्तं यत् युवानः मास्टर्-प्रशिक्षकैः माध्यमेन प्रशिक्षणं प्राप्स्यन्ति, अस्मिन् केवलं ते एव छात्राः भविष्यन्ति येषां वयः 18 वर्षात् अधिकः स्यात्। प्रशिक्षणं समाप्तवन्तः सर्वेऽपि युवाः जनपद-आपदाप्रबन्धन-प्राधिकरणतः प्रमाणपत्रं, आई.ई.सी. प्रचारसामग्री च परिचयपत्रं च प्राप्स्यन्ति। तदपि न केवलं, अपितु त्रिवर्षपर्यन्तं प्रत्येकः प्रशिक्षितः आपदामित्रः बीमा-कवरेण संरक्षितः भविष्यति।
उपायुक्तेन स्पष्टं कृतं यत् पूर्वं जनपदे आपदा-स्वयंसेवकाः सज्जीकृता आसन्, येषु सामान्या युवाः अपि सम्मिलिता आसन्। किन्तु एषा योजना भिन्ना अस्ति। अस्मिन् केवलं एन.सी.सी., एन.एस.एस., नेहरू-युवा-केन्द्र, भारत-स्काउट्-एण्ड्-गाइड् सम्बन्धिनः स्वयंसेवकाः एव आपदामित्राः भविष्यन्ति।
सभायां ज्ञापितं यत् प्रशिक्षणं चतुर्षु गणेषु आयोजितं भविष्यति। तदर्थं बटालियन-प्रशिक्षण-केन्द्रं होम्गार्ड्-एण्ड्-सिविल्-डिफेन्स् सुन्नी, पराला, सरगीन तथा फायर्-प्रशिक्षण-केन्द्रं बल्देयान् इति स्थानानि चयनितानि इति।
---------------
हिन्दुस्थान समाचार / Dheeraj Maithani