Enter your Email Address to subscribe to our newsletters
जोरहाटम् (असमः), 24 सितम्बरमासः (हि.स.)।
असमप्रदेशस्य प्रसिद्धगायकः सांस्कृतिकप्रतीकः च जुबीन् गर्ग् इत्यस्य आकस्मिकमृत्युः—तस्य विषये अपराधअन्वेषणविभागेन (CID) अन्वेषणम् आरब्धम्
प्राप्तसूचनानुसारं मङ्गलवारस्य रात्रौ विलम्बेन CID-दलम् जोरहाटनगरम् आगत्य तेषां प्रार्थकैः सह प्रश्नोत्तरम् आरब्धम्, ये गायकस्य मृत्यौ सन्दिग्धपरिस्थितीनाम् आलम्बनं कृत्वा प्राथमिकीं निबद्धवन्तः।
अद्यावधि जोरहाटनगरे विभिन्नेषु थानेषु न्यूनातिन्यूनं पञ्च प्राथमिकीः निबद्धाः। एषु प्रार्थनापत्रेषु अनेकेषां नामानि निर्दिष्टानि, तत्र श्यामकानु-महन्तः, सिद्धार्थः शर्मा, शेखरः गोस्वामी इत्यादीनि अपि सम्मिलितानि सन्ति।
हिन्दुस्थान समाचार