Enter your Email Address to subscribe to our newsletters
- एमसीडीदलस्य नेता सदनं मुकरबाचतुष्पथि स्वच्छता अभियाने अगृह्णात् भागं, जनतायै आह्वानम्
नवदिल्ली, 24 सितंबरमासः (हि.स.)।
दिल्लीनगरनिगमस्य (एम्.सी.डी.) सभानेता प्रवेशवाही श्रीनरेन्द्रमोदिनः प्रधानमन्त्रिणः जन्मदिनस्य अवसरात् प्रारब्धे ‘सेवा पख्वारे’ अन्तर्गतं बुधवारे मुकरबाचौके स्वच्छताअभियाने सहभागी अभवत्। तेन “स्वच्छा हरिता च दिल्ली” इत्यर्थे सामूहिकनागरिकसहभागिताया: आवश्यकतां प्रतिपादिता।
प्रवेशवाही अवदत्—“प्रधानमन्त्रिणः नरेन्द्रमोदिनः मार्गदर्शनात्, दिल्लीमुख्यमन्त्रिण्या रेखागुप्ता नाम्न्या: सहयोगेन, निगमजनैः सह मुकरबाचतुष्पथि कचरासंवेदनशीलस्थानानां व्यापकं शोधनं क्रियते। स्वच्छता केवलं अभियानं न, अपि तु अस्माकं जीवनशैलीस्य अङ्गं भवितव्यम्। एषः कार्यक्रमः दिल्लीं स्वच्छां सुन्दरां च कर्तुं प्रमुखः चरणः अस्ति।”
असौ अपि अवदत्—“एषः स्वच्छताऽभियानः द्वितीयं अक्टोबरदिनं यावत् प्रवर्तिष्यते। आगच्छत्सु उत्सवकालेषु यथोचितं स्वच्छता-निश्चयः विशेषतया आवश्यकः।’’
वाही सर्वान् नागरिकान् ‘सेवा पख्वारे’ सक्रियतया सहभागितुं, स्वस्वक्षेत्रेषु च स्वच्छतां धारयितुं, दिल्लीनगरनिगमस्य साहाय्यं कर्तुं च अपीलामकरोत्। सः अवदत्—“एषः अभियानः देशं स्वच्छं सशक्तं च कर्तुं सकारात्मकं चरणम् अस्ति।”
अस्मिन् स्वच्छताभियाने नरेलाविधानसभाया: विधायकः राजकरणखत्री, पार्षदा अञ्जू अमनश्च अपि सम्मिलितवन्तौ, मुकरबाचतुष्पथि रिंगरोडप्रदेशे प्रमुखेषु स्थलेषु मार्जनं कृत्वा स्वच्छतां कारितवन्तौ। लोकनिर्माणविभागस्य (पी.डब्ल्यू.डी.) वरिष्ठाधिकारिणः, दिल्लीनगरनिगमस्य पदाधिकारिणः, आर.डब्ल्यू.ए., व्यापारीसंघटनस्य सदस्याः, सफायकर्मकराश्चान्ये अपि अत्र सहभागिनोऽभवन्।
---------------
हिन्दुस्थान समाचार