Enter your Email Address to subscribe to our newsletters
बाक्सा (असमः), 24 सितंबरमासः (हि.स.)।पर्यटनवर्षे २०२५-२६ दृष्ट्वा विश्व-धरोहर-प्रदेशः मानस-राष्ट्रिय-उद्यानं बुधवासरे पुनः पर्यटकानां कृते उद्घाटितम्। अस्मिन्नवसरे मानसस्य बांसबाड़ी-सीमायाः प्रथम-द्वारात् द्वितीयं मुख्यं च प्रवेशद्वारं प्रति राष्ट्रियोद्यानस्य पालतु-गजैः सह जागरूकता-जलूसः आयोजनं कृतम्। ततः अनन्तरं फीता-च्छेदनपूर्वकं औपचारिकरूपेण मानसस्य मुख्य-द्वारं पर्यटकानां कृते बीटीसी-वन-विभागस्य सीएचडी सुमन-महापात्रेण उद्घाटितम्।
सुमन-महापात्रः मानसस्य उद्घाटनकाले माध्यम-कार्मिकैः सह वार्तालापं कृत्वा अवदत्—“अद्यादारभ्य पर्यटकानां कृते मानस-राष्ट्रीय-उद्यानं पुनः उद्घाटितम्। भवन्तः स्वसुरक्षां रक्षित्वा शोभनया विधिना उद्यानस्य सौन्दर्यं दर्शनं कुर्वन्तु।”उल्लेखनीयं यत्, उद्यानस्य उद्घाटनात् पूर्वं दिवंगत-गायक-जुबिन-गर्गस्मरणाय एक-निमेष-निश्शब्द-प्रार्थनया सह श्रद्धाञ्जलिः अर्पितः।उद्यान-उद्घाटन-कार्यक्रमे मानस-बाघ-परियोजनायाः च उद्यानस्य च क्षेत्र-संचालकः डॉ. सी. रमेशः, उप-क्षेत्र-संचालकः शशिधर-रेड्डिः, बांसबाड़ी-सीमायाः रेंजरः बारिन-बोड़ो नाम च अन्ये बहवः विशिष्टाः व्यक्तयः, स्थानीय-प्रकृति-प्रेमिणः, ग्रामिणाश्च सहभागी अभवन्।
विशेषतया ज्ञेयम् यत्, प्रतिवर्षं वर्षा-काले मानस-राष्ट्रीय-उद्यानं पर्यटकानां कृते निरुद्धं भवति। वर्षा-काले जलप्लावन-जलम् उद्यानं प्रविशति, येन सर्वे प्रवेशमार्गाः जलमग्नाः भवन्ति। तदा च वन्य-जीवाः उन्नत-प्रदेशेषु पलायनं कुर्वन्ति, यस्य परिणामः अत्यन्तं गम्भीरः भवति। वर्षा-ऋतुपर्यवसानानन्तरं पुनः औपचारिकरूपेण उद्यानं पर्यटकानां कृते उद्घाट्यते।
----------------------------
हिन्दुस्थान समाचार