Enter your Email Address to subscribe to our newsletters
रांची, 24 सितंबरमासः (हि.स.)।
झारखण्डस्य सर्वेषु स्थलेषु २५ सितम्बर दिनाङ्के लघुतरमध्यममात्रया वर्षा भविष्यतीति मौसमविभागेन बुधवासरे सूचितम्। विभागेन राज्यस्य दक्षिण-पश्चिमदिग्भागेषु कतिपयेषु जिलेषु प्रचुरवृष्टेः सम्भावना व्यक्ता। सह एव २५–३० किलोमीटरगतिकया तीव्रवातः वहिष्यति, आकाशीयविद्युत्पतनं च भविष्यतीति आशङ्का प्रकटिता। एतस्मात् कारणात् विभागेन येलो-एलर्ट् इत्याख्या चेतावनी प्रदत्ता।
गतचतुर्विंशतिघण्टाभ्यन्तरे राज्ये सर्वाधिकवृष्टिः पश्चिमसिंहभूमजिले सोनुआ-नाम्नि स्थले १०९ मिलीमीटरमित्या अभिलेखिता। तस्मिन्नेव समये राञ्च्यां २१ मिलीमीटरमात्रा वर्षा अभिलिखिता। बुधवासरे राञ्च्यां तदुपकण्ठेषु च प्रभाते आकाशं निर्मलं सूक्ष्मसूर्यप्रकाशः चासीत्, मध्ये मध्ये मेघमण्डलोपि दृष्टम्। अतः वातावरणं सुखकरं जातम्।
विशेषतया गतत्रिदिवसाभ्यन्तरे राजधानी-राञ्चिं सहित्य राज्यस्य नानाजिलेषु प्रचुरवृष्टिः अभवत्। चतुर्विंशतिघण्टाभ्यन्तरे राज्ये सर्वाधिकतापमानं ३५.३ डिग्रीसेल्सियस् इति गोड्डायां न्यूनतमं च २१.२ डिग्रीसेल्सियस् इति लातेहारे अभिलेखितम्।
अस्मिन् काले राञ्च्यां अधिकतमतापमानं ३१.४ डिग्री, जमशेदपुरे ३३.६ डिग्री, डाल्टनगञ्जे ३४ डिग्री, बोकारोमध्ये ३३.१ डिग्री, चाईबासायां ३४.४ डिग्रीसेल्सियस् इत्यपि लिपिबद्धम्।
---------------
हिन्दुस्थान समाचार