Enter your Email Address to subscribe to our newsletters
वाराणसी,25 सितंबरमासः (हि.स.)।वाराणस्यां स्थिते सम्पूर्णानन्दसंस्कृतविश्वविद्यालयस्य दीनदयालोपाध्याय-कौशलकेन्द्रे प्रवेशप्रक्रिया आरब्धा अस्ति। अस्मिन् केन्द्रे प्रचलमानासु ज्योतिष-कर्मकाण्ड-डिप्लोमा-डिग्री, वास्तुशास्त्र-आन्तरिकसज्जा-डिप्लोमा-डिग्री-नाम्नि पाठ्यक्रमेषु इच्छुकाः छात्राः प्रवेशं प्राप्नुयुः। अत्र छात्रेभ्यः नियतं भौतिकरूपेण कक्षाः, प्रायोगिकप्रशिक्षणं च समयसमये शैक्षिकभ्रमणं च करिष्यते इति। एषा सूचना केन्द्रनिदेशिका प्रो. विधुद्विवेदी इत्यनेन गुरुवासरे प्रदत्ता।
सा अवदत् – एतेषां पाठ्यक्रमाणां अध्ययनात् छात्राणां विविधानि क्षेत्राणि स्वरोजगाराय सुलभानि भविष्यन्ति। अद्य संस्थानं छात्रहिताय निरन्तरं नानाप्रकारकान् पाठ्यक्रमान् सञ्चालयति, येन छात्राः आत्मनिर्भराः कर्तुं शक्यन्ते। अस्यै श्रृंखलायामेव एषः पाठ्यक्रमः सञ्चालितः अस्ति। सेवार्थं धर्मगुरुत्वं प्राप्तुं अस्मात् पाठ्यक्रमात् सुगमः मार्गः लभ्यते। एवं वैदिकानुष्ठान-विशेषज्ञतायाः स्वरोजगारस्य च अवसरः प्राप्तुं शक्यते।
निदेशिका प्रो. विधु इत्यनेनोक्तम् – रोजगारपरकाणां पाठ्यक्रमाणां दृष्ट्या विश्वविद्यालयः प्रयत्नशीलः अस्ति। अस्माकं छात्राः भारतीयसंस्कृतेः, भारतीयज्ञानपरम्परायाः अन्तर्गतं निहितानाममृततत्त्वानाम् वैश्विकस्तरे प्रसारणं कृत्वा, देववाणीसंस्कृतेः अन्तःस्थं ज्ञानतत्त्वं प्राप्य भारतस्य पताका सम्पूर्णजगति लहरयितुं प्रयतन्ते – एषः अस्माकं प्रयासः।
प्रवेशार्थं छात्राः परिसरस्थिते पाणिनिभवने, प्रथमतले, दीनदयालोपाध्यायकौशलकेन्द्रकार्यालये सम्पर्कं कर्तुं शक्नुवन्ति।
---------------
हिन्दुस्थान समाचार