Enter your Email Address to subscribe to our newsletters
वाराणसी, 25 सितम्बरमासः (हि.स.)।
काशीहिन्दुविश्वविद्यालयस्य (बीएचयू) चिकित्साविज्ञानसंस्थानस्य वरिष्ठ-न्यूरोसर्जनः, पूर्व-विभागाध्यक्षश्च प्रो. विजयनाथमिश्रः ३९-जी.टी.सी. इत्यस्य कमाण्डरं ब्रिगेडियर-अनर्बन्-दत्तं सन्दर्शितवान्। प्रो. मिश्रः भारतीय-न्यूरोलॉजी-एसोसिएशनस्य वार्षिक-अधिवेशन-कार्यक्रमे आगत्य भागग्रहणं कर्तुं ब्रिगेडियर-अनर्बन्-दत्तं न्यौतम् अकरोत्, तस्मै च छायाचित्रकार- मनीषखत्रेः “भज विश्वनाथम्” नामक-कृतिं उपहाररूपेण दत्तवान्।
प्रो. मिश्रः गुरुवासरे अवदत् यत् भारतीय-न्यूरोलॉजी-एसोसिएशनस्य वार्षिक-अधिवेशनं द्वात्रिंशद्वर्षेषु प्रथमवारं वाराणस्यां ३० अक्तोबरतः २ नवम्बरपर्यन्तं भविष्यति।
अस्मिन् अधिवेशने चतुर्थदिने मस्तिष्क-रोगेषु जन-जागरूकतां प्रसारितुं राष्ट्रस्य सर्वे न्यूरो-चिकित्सकाः ३९-जी.टी.सी.-प्राङ्गणे संचरिष्यन्ति। अनन्तरं गोरखा-रेजिमेण्टस्य वीर-शहीदान् प्रति सलामी प्रदाय तान् नमनं करिष्यन्ति।
प्रो. मिश्रस्य मतानुसारं तस्मिन् अवसरः मुख्य-कार्यक्रम-स्थले ताज्-होटल् मध्ये गोरखा-रेजिमेण्टस्य शौर्यं प्रकाशयन्ती प्रदर्शनी अपि आयोजिताः। तस्यां प्रदर्शनीमध्ये मुख्याकर्षणं अष्टफुट-उच्चं गोरखा-कैप्-नामकं आदर्शमस्ति। तेन महद्गोरखा-रेजिमेण्टस्य शौर्यं राष्ट्रस्य सर्वे न्यूरो-चिकित्सकाः, विदेशेषु च न्यूरोलॉजिस्टाः, ज्ञातुं शक्नुवन्ति।
---------------
हिन्दुस्थान समाचार