Enter your Email Address to subscribe to our newsletters
मुगलसराये तत्स्थले दत्तश्श्रद्धांजलिः,यत्र लब्धः तत्छवः
वाराणसी, 25 सितंबरमासः (हि.स.)।वाराणस्यां गुरुवासरे एकात्ममानववादस्य, अन्त्योदयस्य च प्रणेता पण्डितः दीनदयालोपाध्यायः तस्य १०९-मा जयंती उत्सवेन आचरिता। गोष्ठीद्वारा सः सम्पूर्णया श्रद्धया सम्मानपूर्वकं च स्मृतः। अस्मिन् अवसरः भारतीयजनतापक्षेन (भा.ज.पा.) विविधैश्च संस्थाभिः तस्य चित्रे पुष्पाणि समर्प्य नमनं कृतम्।
चन्दौलीजिलस्य पण्डित-दीनदयालोपाध्यायनगरनाम्नि (पूर्वं मुग़लसराय) अपि तस्य स्मृतौ श्रद्धाञ्जलिसभा आयोजिता। भा.ज.पा. राष्ट्रियस्वयंसेवकसंघस्य (आर.एस्.एस्.) च कार्यकर्तारः तस्मिन् ऐतिहासिके स्थले उपस्थितवन्तः, यत्र ११ फेब्रुवरि १९६८ तमे दिने पण्डितोपाध्यायस्य मृतदेहः रेलमार्गे प्राप्तः। तदा प्रथमे प्लाटफार्मस्य पश्चिमदिके स्थिते स्तम्भे समीपे तस्य देहसहितं झोलकं लब्धम्, यस्मिन् तस्य स्वीयवस्त्राणि सामानं च आसन्। तस्मिन् समये संघस्य नगरसंघचालकः गुरुबक्षकपाही इत्यनेन तस्य मृतदेहस्य परिचयः कृतः।
अस्मिन् अवसरः सन्तोषोपाध्यायः, सुरेशकपाही, निखिलकपाही, ऋषिः, शशिः, आशुतोषः इत्यादयः श्रद्धासुमनानि अर्प्य पण्डितं स्मृतवन्तः।
अपरत्र सामाजिकमाध्यमेषु विविधेषु प्लाटफार्मेषु जनाः अपि पण्डितदीनदयालोपाध्यायं प्रति श्रद्धाञ्जलिमर्पयन्ति।
जिलस्य फूलपुरक्षेत्रे क्षेत्रीयव्यापारमण्डलेन चौरामातामन्दिरप्राङ्गणे जयंतीसमारोहो आयोजितः, यत्र भा.ज.पा. जिलाउपाध्यक्षः पवनसिंहः पण्डितस्य जीवनं योगदानं च प्रकाशयामास।
तथा रोहणियाविधानसभान्तरगतं रामेश्वरमण्डलस्य भाजपाकार्यकर्तारः अपि जयंतीमाचर्य पण्डितस्य विचारान् जनजनं प्रति प्रापयितुं संकल्पं
कृतवन्तः।
---------------
हिन्दुस्थान समाचार