Enter your Email Address to subscribe to our newsletters
उज्जैनम्, 25 सितंबरमासः (हि.स.)। चलचित्रकलाकारः संजयदत्तः बुधवासरे प्रातःकाले उज्जैने आगत्य बाबमहाकालस्य दर्शनं कृतवान् तथा भस्मार्त्यां च सम्मिलितः। भगवाकुर्ताभिरभूषितः संजयदत्तः सञ्चारमाध्यमेभ्यः उक्तवान् – “अहं बाबामहाकालस्य दर्शनं कृत्वा अत्यन्तं भावितः अस्मि। अतीव अलौकिकाः क्षणाः आसन्। अद्भुतम् अनुभूतम्। यदा पुनः बाबा आह्वाष्यति तदा पुनरागमिष्यामि।” तस्य पश्चात् सः “हर हर महादेव” इति जयकारम् अपि उद्घोषितवान्।
---------------
हिन्दुस्थान समाचार / Dheeraj Maithani