Enter your Email Address to subscribe to our newsletters
भाेपालम्, 26 सितंबरमासः (हि.स.)। स्वातन्त्र्यसंग्रामसेनानी समाजसुधारकश्च ईश्वरचन्द्र–विद्ध्यासागरस्य जयंती अद्य शुक्रवासरे आचर्यते। अस्मिन् अवसरि मुख्यमंत्री डा॰ मोहन–यादवेन तं स्मृत्वा विनम्रं नमनं कृतम्।
मुख्यमंत्री डा॰ यादवः सोशल–मीडियाजालपृष्ठे एक्स इत्यस्मिन् लिखितवान् – “महानः स्वातन्त्र्य–संग्राम–सेनानी समाज–सुधारकश्च ईश्वरचन्द्र–विद्ध्यासागर–महाभागस्य जयंतीदिने सादरं नमनम्। भवतः प्रगतिशीलाः विचाराः समाज–सुधारप्रयत्नाश्च सामाजिक–समरसतायाः राष्ट्रस्य च उत्तरोत्तर–विकासाय नित्यम् अनुकरणीयाः भविष्यन्ति।”
उल्लेखनीयम् यत् ईश्वरचन्द्र–विद्ध्यासागरस्य जन्म 26 सितम्बर 1820 तमे दिने पश्चिमबंगस्य मेदिनीपुर–जिले वर्तमानं विरसिंघा–ग्रामे जातम्। सः महान् शिक्षाविद्, समाज–सुधारकः, महान् पण्डितश्चासीत्। तस्य विद्वत्तया एव विद्ध्यासागर इति उपाधिः प्रदत्ता। सः स्त्रीशिक्षायाः विधवा–विवाहस्य च नियमाय स्वरं दत्तवान्। तस्य प्रयत्नैः एव 1856 तमे वर्षे विधवा–पुनर्विवाह–नियमः पारितः। 29 जुलाई 1891 दिने सः महापुरुषः जगतः त्यागं कृतवान्।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता