Enter your Email Address to subscribe to our newsletters
जौनपुरम्,26 सितंबरमासः (हि.स.)।वीरबहादुरसिंहः पूर्वाञ्चल-विश्वविद्यालयस्य अभियांत्रिकी-संकायान्तर्गत दीक्षोत्सव–2025 कार्यक्रमे आई-ट्रिपल-ई-छात्रशाखया “स्मार्ट इण्डिया हैकथॉन” नामकः आयोजनं कृतम्। एषः कार्यक्रमः अभियांत्रिकी-संकायाध्यक्षेण प्रो. सौरभ पाल च कम्प्युटर-साइंस-विभागाध्यक्षेण डॉ. विक्रान्त भटेजा च मार्गदर्शने सम्पन्नः।
अस्मिन हैकथॉन-प्रतियोगितायाम् विश्वविद्यालयस्य विभिन्न-विभागानाम् कुल 25 टीमाः प्रतिभागं कृतवन्तः। तेषां मध्ये उत्कृष्ट-टीमाः राष्ट्रस्तरीये स्मार्ट इण्डिया हैकथॉन मध्ये प्रतिभागस्य अवसरं प्राप्स्यन्ति।
कार्यक्रमस्य आरम्भे आई-ट्रिपल-ई-छात्रशाखाया: ब्रांच-काउंसलर डॉ. दिव्येंदु मिश्रः छात्रान् नवाचाराय प्रेरितवान्। आई-ट्रिपल-ई-फैकल्टी-कोऑर्डिनेटर दिलीप यादवः प्रतिभागिनां प्रयासानां प्रशंसा कृतवान्। विश्वविद्यालय-कोऑर्डिनेटर कृष्ण कुमार यादवः उक्तवान् यत् अधिकांश छात्राः पर्यावरण-संरक्षण, जैविक-कृषिकर्म तथा सामान्य-जनमानसस्य उपयोगाय परियोजनासु नवाचारं कुर्वन्ति।
ज्यूरी-सदस्येषु प्रवीण कुमार पाण्डेयः, डॉ. अनुराग सिंहः, डॉ. रितेश बरनवालः, अंकुश गौरवः, तथा दीप्ति पाण्डेयः निर्णायक-भूमिकां निर्वाहयन्ति।
कार्यक्रमे वैभव भारती, इप्सिता, निहार, सृजन, अभिषेक, ऋचा, आद्रिका, अंशुल, आदित्य, अमन, अनुराग, क्षितिज इत्येषां छात्राणां साहाय्यं प्रशंसनीयम् आसीत्।
हिन्दुस्थान समाचार