Enter your Email Address to subscribe to our newsletters
वाराणसी, 27 सितम्बरमासः (हि. स.)।वाराणस्यां दालमंडी क्षेत्रे अनुमतिं विना अहं मोहम्मदं प्रेम करॊमि इति यात्रां प्रचलयन्तः अजहरः, नफीसः, इरफानः, आदिलः च चौकथानायाः प्रहरिणो गृहीताः।
अस्मिन् सम्बन्धे दालमंडी चौकी क्षेत्रस्य प्रभारी प्रकाशसिंहः चौहान् उक्तवन्तः यत् – दालमंडीमध्ये अहं मोहम्मदं प्रेम करॊमि इति पोस्टरं वहन् किञ्चित् जनाः जुलूसं निष्कासितवन्ति। एषः जुलूसः अनुमति विना प्रचलितः। तस्मिन् विषयाय पुलिस् तहरीरं समर्प्य चौकथानायाः न्यायालये मुकद्मा प्रविष्टः।
अस्मिन् अभियोगे चिन्हिताः लल्लापुरे माता कुण्डे निवासी नफीस अहमदः, दालमंडी निवासी आदिलः, हड़हा सराय निवासी अजहर् मलिकः, चौकं बांदीटोला निवासी इरफानः च गिरफ्ताराः।
सीसीटीवी-दृश्येषु दृश्यन्ते दश अज्ञातजनानां अपि परिचयः कर्तुं प्रचलति, येषां विरुद्धं अपि अभियोगः प्रविष्टः।
---------------
हिन्दुस्थान समाचार