Enter your Email Address to subscribe to our newsletters
पौड़ीगढ़वालः, 27 सितंबरमासः (हि.स.)।
राजकीयव्यावसायिकमहाविद्यालये बनासपैठानीयां प्राचार्यः प्रो.(डा.) विजयकुमारः अग्रवालः छात्रसंघनिर्वाचनाधिकारी च डा. कुमारगौरवः जैन इत्युभौ छात्रसंघपरिषदः मनोनीतान् सदस्यान् पदगोपनीयतायाः शपथं कारयामासतुस्तेन सर्वे मनोनीतसदस्याः महाविद्यालयस्य विकासे सत्यनिष्ठया कर्तव्यपरायणतया च स्वं महत्वपूर्णं योगदानं दास्यन्ति।
गौरव्यम् यत् श्रीदेवसुमन-उत्तराखण्ड-विश्वविद्यालयात् बादशाहीथौले प्राप्तानां निर्देशनानामनुक्रमेण महाविद्यालयेन छात्रसंघनिर्वाचनस्य २०२५–२६ अधिसूचना २० सितम्बर् दिने प्रकाशिताभूत्। किन्तु कोऽपि छात्रः छात्रा वा नियतसमये रिक्तपदानि प्रति नामांकनं न कृतवान्।
अथ छात्रसंघनिर्वाचनाधिकारी डा. कुमारगौरवः जैन समितेः सहयोगेन प्राचार्यस्य मार्गदर्शनेन च २४ सितम्बर् दिने छात्रैः छात्राभिः सह सभां कृत्वा निर्णयं कृतवान् यत् महाविद्यालयस्य मेधावी छात्राः छात्राश्च येषां नाम मेरिटसूच्यां दृश्यते, ये च विविधानि कार्याणि अङ्गीकुर्वन्ति, तेषां कृते दायित्वं समर्प्यताम्।
अतः छात्रसंघाध्यक्षः सूरजरावतः, उपाध्यक्षाऽञ्जलीभट्टा, सचिवा तनिषागोदियाल्, सहसचिवा संजनाकण्डारी, कोषाध्यक्षी नैनाममगाई, विश्वविद्यालयप्रतिनिधिः देवेंद्ररावतः इत्येते अभिषिक्ताः। मनोनीतसदस्येषु आरती, सानिया, सागरः सिंहः, महावीरनेगी, अङ्कितसिंहः, सुमितसिंहकण्डारी च गणनीयाः।
महाविद्यालयस्य मीडियाप्रभारी डा. प्रकाशः फोंदणी अवदत् यत् सर्वे छात्राः छात्राश्च छात्रसंघाय शैक्षिकसहयोगं दातुं प्रतिज्ञातवन्तः सन्ति।
हिन्दुस्थान समाचार