Enter your Email Address to subscribe to our newsletters
-विद्यार्थिनः विद्यालये एव लोकतन्त्रस्य निर्वाचनप्रक्रियाम् अधिगमिष्यन्ति।
भोपालम्, 27 सितम्बरमासः (हि.स.)। मध्यप्रदेशराजधानीभोपाले स्थिते कमलानेहरूसान्दीपनिकन्याशासकीय-विद्यालये अद्य (शनिवासरे) सामान्यनिर्वाचनसदृशं दृश्यं द्रष्टुं शक्यते। सुशोभितानि मतदानकेन्द्राणि, प्रत्येककेन्द्रे श्रेणीवारं निर्वाचनाधिकृताः पङ्क्तिबद्धाः मतदातारः, ईवीएम-यन्त्रस्य बीप्-शब्दः, तर्जनी-अङ्गुल्यां अमिटमश्या चिह्नं—सर्वं सामान्यनिर्वाचनव्यवस्थायाः अनुसारमेव भविष्यति।
विद्यालयस्य प्राचार्या संगीता सक्सेना अवदत् यत्, छात्रपरिषद्-निर्वाचनं भारतीयनिर्वाचनप्रक्रियानुसारम् आयोज्यते। अस्मिन् नूतनतया शासनात् अध्यापकानां कृते प्रदत्तः टैब्-उपकरणः एव ईवीएम-यन्त्ररूपेण प्रयुज्यते, येन मतदानं क्रियते। अस्य पूर्वं सम्पूर्णा निर्वाचनप्रक्रियाअधिसूचनाप्रकाशनम्, प्रत्याशीनामांकनम्, नामांकनपरीक्षणम्, मतदाता-सूचिप्रकाशनम् च—कृता आसीत्। तस्मिन्नेव परिप्रेक्ष्ये मुख्यनिर्वाचनाधिकारी, क्षेत्रमजिस्त्रेट्, निर्वाचनपर्यवेक्षकः, पीठासीनाधिकारी, p1, p2, p3 अधिकारी, सुरक्षाधिकारी इत्यादीनाम् अपि नियुक्तयः कृताः।
सा अवदत् यत् मतदानं 27 सितम्बरस्य दिनाङ्के प्रातः 11 वादनात् अपराह्णे 3 वादनपर्यन्तं विधास्यते। अस्य सम्पूर्णस्य प्रक्रियायाः मुख्यः उद्देश्यः अस्ति—विद्यार्थिनः देशस्य लोकतान्त्रिकनिर्वाचनप्रक्रियायाः परिचयं लभेरन्, मतदानस्य च महत्वं सम्यक् अवगच्छेयुः इति।
हिन्दुस्थान समाचार / अंशु गुप्ता