इंदौरस्य क्षिप्रायाम् अद्य संभाग स्तरीयं निःशुल्कं स्वास्थ्य शिविरम् आयोजितम्
- इंदौरस्य विशेषज्ञ चिकित्सकाः दास्यन्ति सेवाः इंदौरम्, 28 सितम्बरमासः (हि.स.)।सेवा–पक्षस्य स्वस्थ–नारी सशक्त–परिवार इत्यस्य अभियानस्य अन्तर्गते मध्यप्रदेशस्य इन्दौर–जिलायां क्षिप्रा–क्षेत्रे अद्य रविवासरे संभाग–स्तरीयं निःशुल्क–स्वास्थ्य–शिविरम् आय
खंड़वाः शहरी व ग्रामीण अस्पतालों में 1155 महिलाओं के स्वास्थ्य की जाँच की गई


- इंदौरस्य विशेषज्ञ चिकित्सकाः दास्यन्ति सेवाः

इंदौरम्, 28 सितम्बरमासः (हि.स.)।सेवा–पक्षस्य स्वस्थ–नारी सशक्त–परिवार इत्यस्य अभियानस्य अन्तर्गते मध्यप्रदेशस्य इन्दौर–जिलायां क्षिप्रा–क्षेत्रे अद्य रविवासरे संभाग–स्तरीयं निःशुल्क–स्वास्थ्य–शिविरम् आयोज्यते। अस्मिन् शिविरे जल–संसाधन–मन्त्री तुलसीराम–सिलावटः मुख्य–अतिथिरूपेण उपस्थितः भविष्यति। अस्मिन् स्वास्थ्य–शिविरे इन्दौर–नगरस्य अनुभवी चिकित्सकाः आगत्य सामान्यजनानां स्वास्थ्य–परीक्षणं उपचारं च करिष्यन्ति।

जनसम्पर्क–अधिकारी महिपाल–अजयः सूचना दत्त्वा उक्तवान् यत् शिविरे आधुनिक–यन्त्रैः उच्च–रक्तचापः, कर्कट–रोगः, मधुमेहः, दन्त–रोगाः, नेत्र–रोगाः इत्यादीनां परीक्षणं भविष्यति। परीक्षणानन्तरं चिन्हित–रुग्णानां निःशुल्क–चिकित्सायाः व्यवस्था अपि करिष्यते। अस्मिन् शिविरे शासकीय–चिकित्सालयेभ्यः आगताः विशेषज्ञ–चिकित्सकाः सहैव निजी–चिकित्सालयानां वैद्याः अपि सेवाः दास्यन्ति। तदन्यत् होम्योपैथी तथा आयुष–महाविद्यालयानां चिकित्सकाः अपि उपस्थिताः भविष्यन्ति।

एतस्मिन् संभाग–स्तरीये निःशुल्क–स्वास्थ्य–शिविरे एम्.जी.एम्.–चिकित्सालय–महाविद्यालयः, इण्डेक्स–चिकित्सालय–महाविद्यालय, चोइथराम–हॉस्पिटल्, अष्टाङ्ग–आयुर्वेदिक–कॉलेज् इत्यादयः विशेषज्ञ–वैद्याः स्वास्थ्य–कर्मिणः च मिलित्वा परीक्षणं, पञ्जीकरणं, औषध–वितरणं च करिष्यन्ति। सामाजिक–न्याय–विभागेन दिव्याङ्ग–जनानामर्थं पृथक्–काउण्टरः अपि सञ्चाल्यते। अस्य शिविर–आयोजने स्वास्थ्य–सामाजिक–न्याय–अन्य–विभागानां अधिकारिणः दायित्वानि प्राप्तवन्तः सन्ति।

हिन्दुस्थान समाचार