Enter your Email Address to subscribe to our newsletters
- 355 कोटि रुप्यकेभ्योऽधिकस्य विकास कार्याणां दास्यते उपहारः
भोपालम्, 28 सितंबरमासः (हि.स.)।मध्यप्रदेशस्य मुख्यमन्त्रि डॉ॰ मोहन–यादवः अद्य (रविवासरे) उज्जयिन्यां त्रिपञ्चाशत्-पञ्चकोटि रूप्यकाणां व्ययेन विविध-विकास-कार्यानां भूमिपूजनं करिष्यति। तत्र नवीन–कलेक्टरेट्–कार्यालयस्य भवनम् अपि अन्तर्भवति। कलेक्टरेट्–भवनस्य निर्माणम् एकशतचतुस्त्रिंशत्कोट्यधिकं सप्तनवतिलक्ष–रूप्यकव्ययेन भविष्यति। मुख्यमन्त्री डॉ॰ यादवः विकास–कार्यानां शिलान्यास–कार्यक्रमे जनसभाम् अपि सम्बोधयिष्यति।
उज्जयिन्याः जिलाप्रशासनस्य सूचनया अवगतं यत् मुख्यमन्त्रिणा डॉ॰ यादवेन ये विकास–कार्या: शिलान्यासाय नियोजिताः, तेषु कलेक्टरेट्–भवनस्य अतिरिक्तम् अन्येषु स्थानेषु निर्मीयमाणाः सेतु–निर्माणानि, नवीन–विश्रामगृहः, नवीन–सर्किट्–हाउसः, शासकीय–धन्वन्तरि–आयुर्वेदिक–महाविद्यालय–परिसरे बालक–बालिका–छात्रावासौ, सिविल्–अस्पताल–भवनम् इत्यादयः अपि अन्तर्भवन्ति।
---------------
हिन्दुस्थान समाचार