Enter your Email Address to subscribe to our newsletters
रायपुरम् 28 सितंबरमासः (हि.स.)।
छत्तीसगढ–राज्यस्य मुख्यमंत्री विष्णुदेव–सायः अद्य रविवासरे रायपुर–नगरस्य बहुषु कार्यक्रमेषु सहभागी भविष्यति।
मुख्यमंत्री सायः अपराह्णे १ वादने मुख्यमंत्री–निवासात् दीनदयाल–उपाध्याय–ऑडिटोरियमं प्रति प्रस्थानं करिष्यति। अपराह्णे १:३० वादने मैत्री–महोत्सव–कार्यक्रमे सहभागी भविष्यति। ततः डीडीयू ऑडिटोरियमात् भाजपा–प्रदेश–कार्यालयं प्रति प्रस्थानं करिष्यति।
अपराह्णे २:३० वादने पत्रकार–वार्तायाः सम्बोधनं करिष्यति। अपराह्णे ३:३० वादने मेडिकल–कॉलेज–सभागरे GST 2.0–सुधार–कार्यक्रमे सहभागी भविष्यति।
---------------
हिन्दुस्थान समाचार